Click on words to see what they mean.

युधिष्ठिर उवाच ।त्वयि याते महाबाहो संशप्तकबलं प्रति ।प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥ १ ॥
व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः ।प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥ २ ॥
स वार्यमाणो रथिभी रक्षितेन मया तथा ।अस्मानपि जघानाशु पीडयन्निशितैः शरैः ॥ ३ ॥
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ ४ ॥
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् ।उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ॥ ५ ॥
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् ।असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥ ६ ॥
स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ ७ ॥
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ ८ ॥
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥ ९ ॥
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः ।कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ १० ॥
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ ११ ॥
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥ १२ ॥
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् ।राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥ १३ ॥
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह ।ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ॥ १४ ॥
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ।स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥ १५ ॥
संजय उवाच ।ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् ।हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥ १६ ॥
विषण्णवदनाः सर्वे परिगृह्य धनंजयम् ।नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ॥ १७ ॥
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः ।कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ १८ ॥
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् ।उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ १९ ॥
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् ।न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ २० ॥
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् ।भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ २१ ॥
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् ।पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥ २२ ॥
रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन ।अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥ २३ ॥
यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः ।मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥ २४ ॥
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् ।गुरुदारगामिनां ये च पिशुनानां च ये तथा ॥ २५ ॥
साधूनसूयतां ये च ये चापि परिवादिनाम् ।ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥ २६ ॥
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् ।ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥ २७ ॥
पायसं वा यवान्नं वा शाकं कृसरमेव वा ।संयावापूपमांसानि ये च लोका वृथाश्नताम् ।तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥ २८ ॥
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ।अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ॥ २९ ॥
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् ।याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः ।तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ ३० ॥
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः ।उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ।आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ॥ ३१ ॥
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा ।असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् ।तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ ३२ ॥
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् ।न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥ ३३ ॥
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च ।अनर्हते च यो दद्याद्वृषलीपत्युरेव च ॥ ३४ ॥
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः ।तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥ ३५ ॥
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ।ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ।यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ॥ ३६ ॥
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत ।यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ।इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् ॥ ३७ ॥
असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा ।चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥ ३८ ॥
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा ।तदपि शरशतैरहं प्रभाते भृशमभिपत्य रिपोः शिरोऽभिहर्ता ॥ ३९ ॥
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् ।तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥ ४० ॥
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः ॥ ४१ ॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः ।जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा ॥ ४२ ॥
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः ।सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥ ४३ ॥
« »