Click on words to see what they mean.

संजय उवाच ।रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् ।हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥ १ ॥
सनाथमिदमत्यर्थं भवता पालितं बलम् ।मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम् ॥ २ ॥
कर्ण उवाच ।ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप ।यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ ३ ॥
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर ।नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥ ४ ॥
दुर्योधन उवाच ।भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च ।श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा ॥ ५ ॥
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम ।सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥ ६ ॥
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् ।कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥ ७ ॥
न ऋते नायकं सेना मुहूर्तमपि तिष्ठति ।आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ ८ ॥
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥ ९ ॥
स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु ।पश्य सेनापतिं युक्तमनु शांतनवादिह ॥ १० ॥
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे ।तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ॥ ११ ॥
कर्ण उवाच ।सर्व एव महात्मान इमे पुरुषसत्तमाः ।सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥ १२ ॥
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः ।युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ॥ १३ ॥
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः ।एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥ १४ ॥
अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि ।शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ॥ १५ ॥
अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः ।युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥ १६ ॥
को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे ।सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ॥ १७ ॥
न च स ह्यस्ति ते योधः सर्वराजसु भारत ।यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ॥ १८ ॥
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि ।एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ॥ १९ ॥
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु ।जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः ॥ २० ॥
संजय उवाच ।कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥ २१ ॥
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया ।वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥ २२ ॥
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि ।युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ॥ २३ ॥
स भवान्पातु नः सर्वान्विबुधानिव वासवः ।भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥ २४ ॥
रुद्राणामिव कापाली वसूनामिव पावकः ।कुबेर इव यक्षाणां मरुतामिव वासवः ॥ २५ ॥
वसिष्ठ इव विप्राणां तेजसामिव भास्करः ।पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ॥ २६ ॥
नक्षत्राणामिव शशी दितिजानामिवोशनाः ।श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ॥ २७ ॥
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ ।ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥ २८ ॥
प्रयातु नो भवानग्रे देवानामिव पावकिः ।अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ॥ २९ ॥
उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः ।अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ॥ ३० ॥
ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् ।जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥ ३१ ॥
एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः ।सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥ ३२ ॥
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् ।दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ॥ ३३ ॥
द्रोण उवाच ।वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् ।त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ॥ ३४ ॥
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः ।चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ॥ ३५ ॥
संजय उवाच ।स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः ।द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥ ३६ ॥
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः ।सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥ ३७ ॥
ततो वादित्रघोषेण सह पुंसां महास्वनैः ।प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥ ३८ ॥
ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च ।संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥ ३९ ॥
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा ।सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ॥ ४० ॥
« »