Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा प्रविष्टं तरुणं सौभद्रमपराजितम् ।कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् ॥ १ ॥
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः ।प्लवमानमिवाकाशे के शूराः समवारयन् ॥ २ ॥
संजय उवाच ।अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः ।अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ॥ ३ ॥
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः ।कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ ४ ॥
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ।सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ ५ ॥
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः ।तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ ६ ॥
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् ।व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥ ७ ॥
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् ।अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ ८ ॥
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ ९ ॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ १० ॥
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ११ ॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥ १२ ॥
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ।वरं वरममित्राणामारुजन्तमभीतवत् ॥ १३ ॥
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष ।पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ १४ ॥
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः ।उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥ १५ ॥
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः ।प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ १६ ॥
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् ।अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ॥ १७ ॥
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश ।बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥ १८ ॥
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः ।तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ १९ ॥
तं कोसलानामधिपः कर्णिनाताडयद्धृदि ।स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥ २० ॥
अथ कोसलराजस्तु विरथः खड्गचर्मधृत् ।इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ २१ ॥
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् ।हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥ २२ ॥
बभञ्ज च सहस्राणि दश राजन्महात्मनाम् ।सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ २३ ॥
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे ।विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ॥ २४ ॥
« »