Click on words to see what they mean.

संजय उवाच ।समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः ।सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥ १ ॥
सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया ।नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ॥ २ ॥
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः ।सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥ ३ ॥
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् ।रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥ ४ ॥
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः ।उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥ ५ ॥
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः ।नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ॥ ६ ॥
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः ।सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥ ७ ॥
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः ।अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः ॥ ८ ॥
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च ।कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ॥ ९ ॥
धनंजयस्य रूपेण विक्रमेण श्रुतेन च ।विनयात्सहदेवस्य सदृशो नकुलस्य च ॥ १० ॥
धृतराष्ट्र उवाच ।अभिमन्युमहं सूत सौभद्रमपराजितम् ।श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥ ११ ॥
संजय उवाच ।चक्रव्यूहो महाराज आचार्येणाभिकल्पितः ।तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ॥ १२ ॥
संघातो राजपुत्राणां सर्वेषामभवत्तदा ।कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥ १३ ॥
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः ।सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ॥ १४ ॥
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ।पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ॥ १५ ॥
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ।अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ॥ १६ ॥
कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ।चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥ १७ ॥
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके ।सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ॥ १८ ॥
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ।सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ॥ १९ ॥
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥ २० ॥
« »