Click on words to see what they mean.

संजय उवाच ।शरतल्पे महात्मानं शयानममितौजसम् ।महावातसमूहेन समुद्रमिव शोषितम् ॥ १ ॥
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना ।जयाशां तव पुत्राणां संभग्नां शर्म वर्म च ॥ २ ॥
अपाराणामिव द्वीपमगाधे गाधमिच्छताम् ।स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥ ३ ॥
महान्तमिव मैनाकमसह्यं भुवि पातितम् ।नभश्च्युतमिवादित्यं पतितं धरणीतले ॥ ४ ॥
शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् ।मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ॥ ५ ॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।धनंजयशरव्याप्तं पितरं ते महाव्रतम् ॥ ६ ॥
तं वीरशयने वीरं शयानं पुरुषर्षभम् ।भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ॥ ७ ॥
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् ।अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥ ८ ॥
कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत ।पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥ ९ ॥
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते ।यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥ १० ॥
कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च ।नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ॥ ११ ॥
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् ।योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ॥ १२ ॥
अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् ।पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥ १३ ॥
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः ।कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः ॥ १४ ॥
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः ।त्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान् ॥ १५ ॥
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् ।धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ॥ १६ ॥
येन येन प्रसरतो वाय्वग्नी सहितौ वने ।तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ॥ १७ ॥
यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः ।यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ॥ १८ ॥
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च ।श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ॥ १९ ॥
कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः ।शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥ २० ॥
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति ।यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ॥ २१ ॥
अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः ।तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥ २२ ॥
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवतानुशिष्टः ।आशीविषं दृष्टिहरं सुघोरमियां पुरस्कृत्य वधं जयं वा ॥ २३ ॥
« »