Click on words to see what they mean.

संजय उवाच ।भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः ।तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥ १ ॥
नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् ।अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥ २ ॥
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः ।अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥ ३ ॥
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति ।समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥ ४ ॥
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष ।संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ॥ ५ ॥
यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् ।गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ॥ ६ ॥
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः ।तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन ॥ ७ ॥
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति ।उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ॥ ८ ॥
सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः ।युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ॥ ९ ॥
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती ।अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥ १० ॥
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम् ।विगाह्य तौ सुबलिनौ माययाविशतां तदा ॥ ११ ॥
न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः ।वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥ १२ ॥
ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च ।नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥ १३ ॥
अपकृष्यमाणः कौन्तेयो नदत्येव महारथः ।वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ॥ १४ ॥
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन ।वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ॥ १५ ॥
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः ।वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥ १६ ॥
रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः ।तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥ १७ ॥
एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् ।निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥ १८ ॥
यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि ।ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥ १९ ॥
तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे ।बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥ २० ॥
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः ।वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ॥ २१ ॥
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत ।बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥ २२ ॥
हतशेषं बलं तत्र पाण्डवानामतिष्ठत ।अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ॥ २३ ॥
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा ।दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ॥ २४ ॥
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय ।व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ॥ २५ ॥
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष ।सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ॥ २६ ॥
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते ।आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ॥ २७ ॥
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् ।अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप ॥ २८ ॥
पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः ।निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ॥ २९ ॥
दुर्योधन उवाच ।आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते ।अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥ ३० ॥
त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा ।इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ॥ ३१ ॥
धृतराष्ट्र उवाच ।तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते ।तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥ ३२ ॥
दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान् ।नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥ ३३ ॥
संजय उवाच ।जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः ।सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ॥ ३४ ॥
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः ।पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ॥ ३५ ॥
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् ।द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥ ३६ ॥
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः ।हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥ ३७ ॥
विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् ।आददत्सर्वलोकस्य प्राणानिव महारणे ॥ ३८ ॥
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः ।द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ॥ ३९ ॥
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि ।अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ॥ ४० ॥
तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः ।विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥ ४१ ॥
द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके ।छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥ ४२ ॥
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे ।तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ॥ ४३ ॥
प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते ।संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ॥ ४४ ॥
दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् ।शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ॥ ४५ ॥
अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् ।विंशत्या पुनराहत्य नानारूपैरमर्षणम् ।विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥ ४६ ॥
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः ।युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥ ४७ ॥
शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः ।न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥ ४८ ॥
एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् ।व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥ ४९ ॥
स तं निर्भिद्य तेनास्तः सायकः सशरावरम् ।विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥ ५० ॥
स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः ।विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ॥ ५१ ॥
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् ।सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥ ५२ ॥
अथान्येन सुपुङ्खेन शरेण नतपर्वणा ।आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः ॥ ५३ ॥
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः ।ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥ ५४ ॥
तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् ।जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ॥ ५५ ॥
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः ।युवराजश्च चेदीनां मालवश्च सुदर्शनः ।पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥ ५६ ॥
आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः ।चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ॥ ५७ ॥
सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् ।मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ॥ ५८ ॥
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः ।युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥ ५९ ॥
युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् ।पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥ ६० ॥
ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् ।भीमं दशार्धैर्युवराजं चतुर्भिर्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च ।पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद ॥ ६१ ॥
तस्यास्यतः सुनिशितान्पीतधारान्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च ।धरा वियद्द्यौः प्रदिशो दिशश्च छन्ना बाणैरभवन्घोररूपैः ॥ ६२ ॥
आसीनस्य स्वरथं तूग्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ ।भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्संचकर्त ॥ ६३ ॥
स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चापि बाणैः ।छित्त्वास्य बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त ॥ ६४ ॥
युवानमिन्दीवरदामवर्णं चेदिप्रियं युवराजं प्रहस्य ।बाणैस्त्वरावाञ्ज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ॥ ६५ ॥
तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः ।दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥ ६६ ॥
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः ।धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः ॥ ६७ ॥
तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः ।अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ॥ ६८ ॥
ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः ।द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ॥ ६९ ॥
« »