Click on words to see what they mean.

संजय उवाच ।ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः ।युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ १ ॥
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् ।अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् ॥ २ ॥
शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् ।निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥ ३ ॥
ततो वेगेन महता विनद्य स नरर्षभः ।प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥ ४ ॥
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः ।मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥ ५ ॥
तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम् ।विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ॥ ६ ॥
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे ।सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ॥ ७ ॥
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् ।सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥ ८ ॥
ततः समागमो राजन्कुरुपाण्डवसेनयोः ।पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥ ९ ॥
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः ।उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥ १० ॥
तेषां परमहृष्टानां जयमात्मनि पश्यताम् ।संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ॥ ११ ॥
यथा शिलोच्चये शैलः सागरे सागरो यथा ।प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ॥ १२ ॥
ततः शङ्खसहस्राणि भेरीणामयुतानि च ।अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ १३ ॥
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः ।अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ॥ १४ ॥
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा ।अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥ १५ ॥
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः ।पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ॥ १६ ॥
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे ।मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ॥ १७ ॥
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले ।प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ॥ १८ ॥
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः ।चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥ १९ ॥
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ ।दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥ २० ॥
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः ।तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ॥ २१ ॥
वध्यमानास्तथास्त्रेण तेन नारायणेन वै ।दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ॥ २२ ॥
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः ।तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥ २३ ॥
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो ।जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥ २४ ॥
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् ।मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥ २५ ॥
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया ।सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ॥ २६ ॥
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् ।उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ॥ २७ ॥
संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः ।अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥ २८ ॥
भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम् ।अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ॥ २९ ॥
कामः संपद्यतामस्य बीभत्सोराशु मां प्रति ।कल्याणवृत्त आचार्यो मया युधि निपातितः ॥ ३० ॥
येन बालः स सौभद्रो युद्धानामविशारदः ।समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥ ३१ ॥
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता ।उपेक्षिता सपुत्रेण दासभावं नियच्छती ॥ ३२ ॥
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् ।कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ॥ ३३ ॥
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः ।कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥ ३४ ॥
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः ।निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥ ३५ ॥
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् ।हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥ ३६ ॥
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः ।निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥ ३७ ॥
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत ।एष योगोऽत्र विहितः प्रतिघातो महात्मना ॥ ३८ ॥
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत ।एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥ ३९ ॥
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति ।तथा तथा भवन्त्येते कौरवा बलवत्तराः ॥ ४० ॥
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये ।तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान् ॥ ४१ ॥
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन ।निहनिष्यति तान्सर्वान्रसातलगतानपि ॥ ४२ ॥
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत ।ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ॥ ४३ ॥
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः ।भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥ ४४ ॥
न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् ।अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥ ४५ ॥
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे ।कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ॥ ४६ ॥
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह ।यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥ ४७ ॥
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा ।समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ ४८ ॥
नागायुतसमप्राणो ह्यहमेको नरेष्विह ।शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ॥ ४९ ॥
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि ।ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥ ५० ॥
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते ।अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥ ५१ ॥
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः ।अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥ ५२ ॥
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः ।निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥ ५३ ॥
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च ।अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥ ५४ ॥
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे ।अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥ ५५ ॥
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे ।खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥ ५६ ॥
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति ।अवर्धत महाराज यथाग्निरनिलोद्धतः ॥ ५७ ॥
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् ।पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥ ५८ ॥
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले ।अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥ ५९ ॥
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च ।तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥ ६० ॥
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः ।भीमसेनमपश्यन्त तेजसा संवृतं तदा ॥ ६१ ॥
« »