Click on words to see what they mean.

संजय उवाच ।प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा ।प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ १ ॥
चचाल पृथिवी चापि चुक्षुभे च महोदधिः ।प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥ २ ॥
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत ।अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ॥ ३ ॥
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥ ४ ॥
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते ।कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥ ५ ॥
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः ।तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ॥ ६ ॥
धृतराष्ट्र उवाच ।निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥ ७ ॥
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे ।को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय ॥ ८ ॥
संजय उवाच ।प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः ।पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ॥ ९ ॥
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ १० ॥
नाशंसन्त जयं युद्धे दीनात्मानो धनंजय ।आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ॥ ११ ॥
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः ।विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥ १२ ॥
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः ।भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ।युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ॥ १३ ॥
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ।शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ॥ १४ ॥
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः ।संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ॥ १५ ॥
क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् ।नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ॥ १६ ॥
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ।जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ॥ १७ ॥
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् ।पुनरावर्तितं केन यदि जानासि शंस मे ॥ १८ ॥
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् ।रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ॥ १९ ॥
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे ।मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ॥ २० ॥
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः ।सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ॥ २१ ॥
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः ।द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥ २२ ॥
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः ।धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥ २३ ॥
क एष कौरवान्दीर्णानवस्थाप्य महारथः ।निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥ २४ ॥
अर्जुन उवाच ।उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः ।धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ॥ २५ ॥
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते ।धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ॥ २६ ॥
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् ।व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम् ॥ २७ ॥
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् ।ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥ २८ ॥
जातमात्रेण वीरेण येनोच्चैःश्रवसा इव ।हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥ २९ ॥
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा ।अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥ ३० ॥
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा ।कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥ ३१ ॥
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् ।तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥ ३२ ॥
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् ।धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥ ३३ ॥
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः ।नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥ ३४ ॥
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् ।आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥ ३५ ॥
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः ।आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥ ३६ ॥
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः ।शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥ ३७ ॥
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् ।रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ॥ ३८ ॥
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना ।सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥ ३९ ॥
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः ।सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥ ४० ॥
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि ।अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ॥ ४१ ॥
यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ॥ ४२ ॥
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः ।सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ॥ ४३ ॥
धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते ।विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥ ४४ ॥
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ॥ ४५ ॥
अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः ।न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥ ४६ ॥
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ॥ ४७ ॥
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः ।त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ॥ ४८ ॥
स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः ।तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो ॥ ४९ ॥
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् ।घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ ५० ॥
« »