Click on words to see what they mean.

संजय उवाच ।तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये ।दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥ १ ॥
स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥ २ ॥
क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥ ३ ॥
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥ ४ ॥
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥ ५ ॥
प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् ।सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥ ६ ॥
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥ ७ ॥
संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः ।अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥ ८ ॥
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः ।आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥ ९ ॥
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः ।धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ॥ १० ॥
न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च ।नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ॥ ११ ॥
न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः ।इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥ १२ ॥
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् ।सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥ १३ ॥
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥ १४ ॥
धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् ।यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ॥ १५ ॥
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः ।समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥ १६ ॥
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ ।समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥ १७ ॥
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥ १८ ॥
दुर्योधनो महाराज किरञ्शोणितभोजनान् ।तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥ १९ ॥
तौ परस्परमासाद्य समीपे कुरुमाधवौ ।हसमानौ नृशार्दूलावभीतौ समगच्छताम् ॥ २० ॥
बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ॥ २१ ॥
अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत ।प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥ २२ ॥
धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् ।धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥ २३ ॥
यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव ।त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥ २४ ॥
स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ ।तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे ।किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ॥ २५ ॥
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत ।प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥ २६ ॥
नेयं सभा राजपुत्र न चाचार्यनिवेशनम् ।यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥ २७ ॥
दुर्योधन उवाच ।क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव ।क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥ २८ ॥
किं नु नो विद्यते कृत्यं धनेन धनलिप्सया ।यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥ २९ ॥
संजय उवाच ।तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् ।एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ॥ ३० ॥
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः ।त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ ॥ ३१ ॥
या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय ।नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ॥ ३२ ॥
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः ।अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ॥ ३३ ॥
तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः ।शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥ ३४ ॥
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः ।अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥ ३५ ॥
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् ।दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ॥ ३६ ॥
तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः ।पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥ ३७ ॥
तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् ।अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ॥ ३८ ॥
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् ।दुर्योधनो महाराज दाशार्हशरपीडितः ॥ ३९ ॥
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।विसृजन्निषुजालानि युयुधानरथं प्रति ॥ ४० ॥
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति ।प्रततं व्यसृजद्राजंस्तत्संकुलमवर्तत ॥ ४१ ॥
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः ।अग्नेरिव महाकक्षे शब्दः समभवन्महान् ॥ ४२ ॥
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् ।क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥ ४३ ॥
न तु तं मर्षयामास भीमसेनो महाबलः ।अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥ ४४ ॥
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥ ४५ ॥
भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः ।ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ॥ ४६ ॥
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥ ४७ ॥
संकुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् ।पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ॥ ४८ ॥
ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः ।त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥ ४९ ॥
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः ।तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ ५० ॥
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः ।जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ॥ ५१ ॥
जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः ।हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ॥ ५२ ॥
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः ।चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥ ५३ ॥
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः ।भीमसेनपुरोगाश्च एकतः पर्यवारयन् ॥ ५४ ॥
आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः ।यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम् ॥ ५५ ॥
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद ।तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥ ५६ ॥
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् ।पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ॥ ५७ ॥
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् ।यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ ५८ ॥
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि ।नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ॥ ५९ ॥
वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा ।द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ॥ ६० ॥
तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः ।अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ॥ ६१ ॥
वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना ।उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ ६२ ॥
दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि ।पाण्डवेया महाराज नाशंसुर्विजयं तदा ॥ ६३ ॥
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् ।समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥ ६४ ॥
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् ।न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥ ६५ ॥
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् ।मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ ६६ ॥
नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन ।अपि वृत्रहणा युद्धे रथयूथपयूथपः ॥ ६७ ॥
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव ।यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ ६८ ॥
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ ६९ ॥
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः ।अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ ७० ॥
ततो भीमो महाबाहुरनीके स्वे महागजम् ।जघान गदया राजन्नश्वत्थामानमित्युत ॥ ७१ ॥
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे ।अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ ७२ ॥
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् ।कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥ ७३ ॥
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् ।मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥ ७४ ॥
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै ।हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ ७५ ॥
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् ।अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ ७६ ॥
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः ।अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ ७७ ॥
तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः ।तथा चरन्तं संग्रामे सर्वतो व्यकिरञ्शरैः ॥ ७८ ॥
ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परंतपः ।वधाय तेषां शूराणां पाञ्चालानाममर्षितः ॥ ७९ ॥
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् ।शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ।तथैव परिघाकारान्बाहून्कनकभूषणान् ॥ ८० ॥
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः ।मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥ ८१ ॥
कुञ्जराणां च पततां हयौघानां च भारत ।अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ८२ ॥
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् ।अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ ८३ ॥
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् ।वसुदानस्य भल्लेन शिरः कायादपाहरत् ॥ ८४ ॥
पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् ।हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥ ८५ ॥
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् ।ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ॥ ८६ ॥
विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः ।वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥ ८७ ॥
सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः ।भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ॥ ८८ ॥
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् ।अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥ ८९ ॥
न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् ।नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ॥ ९० ॥
वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च ।ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥ ९१ ॥
न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते ।परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥ ९२ ॥
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् ।धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत् ॥ ९३ ॥
स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् ।अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥ ९४ ॥
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् ।त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन ॥ ९५ ॥
तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः ।तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥ ९६ ॥
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् ।द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥ ९७ ॥
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः ।सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥ ९८ ॥
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् ।अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥ ९९ ॥
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् ।श्रुत्वैव तं महाराज वधोपायं महात्मनः ॥ १०० ॥
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः ।अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ॥ १०१ ॥
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् ।अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ॥ १०२ ॥
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः ।स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ॥ १०३ ॥
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् ।त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः ।सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥ १०४ ॥
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः ।भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥ १०५ ॥
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥ १०६ ॥
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः ।बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् ॥ १०७ ॥
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः ।पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत् ॥ १०८ ॥
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् ।ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् ॥ १०९ ॥
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च ।योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम ॥ ११० ॥
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥ १११ ॥
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे ।लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥ ११२ ॥
स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् ।दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् ॥ ११३ ॥
संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् ।द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ॥ ११४ ॥
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे ।द्योततो भास्करस्येव घनान्ते परिवेशिनः ॥ ११५ ॥
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः ।अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥ ११६ ॥
तमिषुं संहितं तेन भारद्वाजः प्रतापवान् ।दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् ॥ ११७ ॥
ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे ।न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ॥ ११८ ॥
तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता ।तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥ ११९ ॥
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः ।विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् ॥ १२० ॥
उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः ।तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् ॥ १२१ ॥
अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः ।शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥ १२२ ॥
ततस्तं शरवर्षेण महता समवाकिरत् ।व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः ॥ १२३ ॥
तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः ।ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥ १२४ ॥
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् ।शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥ १२५ ॥
सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे ।भल्लेन शितधारेण चिच्छेदास्य महद्धनुः ॥ १२६ ॥
यच्चास्य बाणं विकृतं धनूंषि च विशां पते ।सर्वं संछिद्य दुर्धर्षो गदां खड्गमथापि च ॥ १२७ ॥
धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः ।जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः ॥ १२८ ॥
धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः ।अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥ १२९ ॥
ते मिश्रा बह्वशोभन्त जवना वातरंहसः ।पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥ १३० ॥
यथा सविद्युतो मेघा नदन्तो जलदागमे ।तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥ १३१ ॥
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च ।प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥ १३२ ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥ १३३ ॥
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः ।निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥ १३४ ॥
तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः ।विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ॥ १३५ ॥
असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत ।वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥ १३६ ॥
ततः स्वरथनीडस्थः स्वरथस्य रथेषया ।अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥ १३७ ॥
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः ।इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे ॥ १३८ ॥
सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च ।शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् ॥ १३९ ॥
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः ।नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ १४० ॥
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः ।तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे ॥ १४१ ॥
तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी ।सर्वानेकैकशो द्रोणः कपोताभानजीघनत् ॥ १४२ ॥
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः ।शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ॥ १४३ ॥
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः ।नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥ १४४ ॥
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः ।द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥ १४५ ॥
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः ।यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे ॥ १४६ ॥
सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् ।भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ १४७ ॥
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् ।संपातं समुदीर्णं च दर्शयामास पार्षतः ॥ १४८ ॥
ततः शरसहस्रेण शतचन्द्रमपातयत् ।खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः ॥ १४९ ॥
ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः ।निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥ १५० ॥
शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च ।प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ॥ १५१ ॥
अथास्येषुं समाधत्त दृढं परमसंशितम् ।अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ॥ १५२ ॥
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः ।पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ।ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ १५३ ॥
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् ।द्रोणकर्णान्तरगतं कृपस्यापि च भारत ।अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ ॥ १५४ ॥
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति ।दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ।अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ ॥ १५५ ॥
धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव ।आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥ १५६ ॥
आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः ।माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥ १५७ ॥
यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः ।महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥ १५८ ॥
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः ।अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ।योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ १५९ ॥
« »