Click on words to see what they mean.

संजय उवाच ।ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥ १ ॥
तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥ २ ॥
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥ ३ ॥
यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥ ४ ॥
स हयान्संनिगृह्याजौ स्वयं हयविशारदः ।युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥ ५ ॥
तदस्यापूजयन्कर्म स्वे परे चैव संयुगे ।हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥ ६ ॥
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥ ७ ॥
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् ।धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥ ८ ॥
छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥ ९ ॥
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः ।आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥ १० ॥
संन्यवर्तत तं कर्णः संघट्टित इवोरगः ।तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥ ११ ॥
तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ ।वेगेन महतान्योन्यं संरब्धावभिपेततुः ॥ १२ ॥
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।अभिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥ १३ ॥
गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥ १४ ॥
ततो भीमस्य राधेयो गदामादाय वीर्यवान् ।अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥ १५ ॥
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ।प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥ १६ ॥
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।पपात सारथिश्चास्य मुमोह गदया हतः ॥ १७ ॥
स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः ।ध्वजे शरासने चैव शरावापे च भारत ॥ १८ ॥
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥ १९ ॥
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥ २० ॥
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥ २१ ॥
लघुसंधानयोगाभ्यां रथयोश्च रणेन च ।मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥ २२ ॥
उपारमन्त ते सर्वे योधास्माकं परे तथा ।अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥ २३ ॥
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः ।अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ।पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥ २४ ॥
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।आमिषार्थं महाराज गगने श्येनयोरिव ॥ २५ ॥
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥ २६ ॥
यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे ।ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥ २७ ॥
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः ॥ २८ ॥
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥ २९ ॥
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः ॥ ३० ॥
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि ।अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥ ३१ ॥
मेने चात्मानमधिकं पृथिव्यामपि भारत ।तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः ॥ ३२ ॥
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् ।यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ॥ ३३ ॥
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः ।ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया ॥ ३४ ॥
तदप्सरोभिराकीर्णं यक्षराक्षससंकुलम् ।श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥ ३५ ॥
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः ।विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश ॥ ३६ ॥
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ।विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥ ३७ ॥
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ।नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥ ३८ ॥
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥ ३९ ॥
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे ।शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥ ४० ॥
नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः ।इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥ ४१ ॥
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।अन्तर्हितानि भूतानि प्रकाशानि च संघशः ॥ ४२ ॥
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ।संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥ ४३ ॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥ ४४ ॥
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥ ४५ ॥
ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥ ४६ ॥
यदा न गम्यते पारं तयोरन्यतरस्य वा ।ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ॥ ४७ ॥
नाज्ञायत ततः किंचित्पुनरेव विशां पते ।प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥ ४८ ॥
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।न स्म संपतते कश्चिदन्तरिक्षचरस्तदा ॥ ४९ ॥
« »