Click on words to see what they mean.

संजय उवाच ।तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे ।हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ॥ १ ॥
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः ।अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥ २ ॥
पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा ।अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥ ३ ॥
तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे ।कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥ ४ ॥
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः ।तथैव तावका राजन्घूर्णमानास्ततस्ततः ॥ ५ ॥
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः ।तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे ॥ ६ ॥
सर्वमाविग्नमभवद्धाहाभूतमचेतनम् ।तव सैन्यं महाराज निराशं कर्णजीविते ॥ ७ ॥
दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् ।अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ॥ ८ ॥
एष वैकर्तनः कर्णो हैडिम्बेन समागतः ।कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ॥ ९ ॥
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना ।नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥ १० ॥
तवैष भागः समरे राजमध्ये मया कृतः ।तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ ११ ॥
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः ।मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः ॥ १२ ॥
एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः ।तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥ १३ ॥
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो ।प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ॥ १४ ॥
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः ।मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ॥ १५ ॥
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः ।अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥ १६ ॥
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् ।अलायुधेन समरे सिंहेनेव गवां पतिम् ॥ १७ ॥
रथेनादित्यवपुषा भीमः प्रहरतां वरः ।किरञ्शरौघान्प्रययावलायुधरथं प्रति ॥ १८ ॥
तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो ।घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥ १९ ॥
तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो ।सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥ २० ॥
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः ।अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ॥ २१ ॥
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् ।नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥ २२ ॥
स ताड्यमानो बलिभिर्भीमसेनो महाबलः ।पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥ २३ ॥
ते वध्यमाना भीमेन राक्षसाः खरयोनयः ।विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ॥ २४ ॥
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् ।अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥ २५ ॥
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ।अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ।चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥ २६ ॥
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः ।गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥ २७ ॥
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः ।गदया ताडयामास सा गदा भीममाव्रजत् ॥ २८ ॥
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् ।तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥ २९ ॥
ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः ।शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥ ३० ॥
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः ।न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ॥ ३१ ॥
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे ।अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः ॥ ३२ ॥
पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् ।पदवीमस्य गच्छ त्वं मा विचारय पाण्डव ॥ ३३ ॥
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ ।सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥ ३४ ॥
नकुलः सहदेवश्च युयुधानश्च वीर्यवान् ।इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥ ३५ ॥
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् ।वारयस्व नरव्याघ्र महद्धि भयमागतम् ॥ ३६ ॥
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः ।जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ॥ ३७ ॥
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः ।धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥ ३८ ॥
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः ।जघान मिषतः संख्ये भीमसेनस्य भारत ॥ ३९ ॥
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः ।तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ॥ ४० ॥
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् ।गदया राक्षसो घोरो निजघान ननाद च ॥ ४१ ॥
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् ।भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥ ४२ ॥
तयोः समभवद्युद्धं तुमुलं नररक्षसोः ।गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ॥ ४३ ॥
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् ।मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ॥ ४४ ॥
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः ।यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥ ४५ ॥
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् ।मत्ताविव महानागावकृष्येतां पुनः पुनः ॥ ४६ ॥
तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः ।स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ॥ ४७ ॥
« »