Click on words to see what they mean.

संजय उवाच ।तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥ १ ॥
शरा दश दिशो मुक्ता वृषसेनेन मारिष ।विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥ २ ॥
तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः ।भानोरिव महाबाहो ग्रीष्मकाले मरीचयः ॥ ३ ॥
तेनार्दिता महाराज रथिनः सादिनस्तथा ।निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ॥ ४ ॥
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ।अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥ ५ ॥
दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् ।सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ६ ॥
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥ ७ ॥
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥ ८ ॥
कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा ।तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥ ९ ॥
छादयन्तो महाराज द्रौपदेयान्महारथान् ।शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥ १० ॥
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥ ११ ॥
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् ।त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥ १२ ॥
एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः ।परस्परमुदीक्षन्तः परस्परकृतागसः ॥ १३ ॥
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् ।युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ॥ १४ ॥
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः ।बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥ १५ ॥
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।महाबलानां बलिभिर्दानवानां यथा सुरैः ॥ १६ ॥
ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् ।त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् ॥ १७ ॥
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥ १८ ॥
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥ १९ ॥
तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ॥ २० ॥
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥ २१ ॥
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ॥ २२ ॥
कुमारस्तु ततो द्रोणं सायकेन महाहवे ।विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः ॥ २३ ॥
संवार्य तु रणे द्रोणः कुमारं वै महाबलः ।शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ॥ २४ ॥
तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् ।चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ॥ २५ ॥
स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः ।तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ॥ २६ ॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ २७ ॥
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥ २८ ॥
व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् ।अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ २९ ॥
युगंधरस्ततो राजन्भारद्वाजं महारथम् ।वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम् ॥ ३० ॥
युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः ।युगंधरं च भल्लेन रथनीडादपाहरत् ॥ ३१ ॥
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ॥ ३२ ॥
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥ ३३ ॥
व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥ ३४ ॥
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ॥ ३५ ॥
ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च ।तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥ ३६ ॥
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ॥ ३७ ॥
तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् ।युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ॥ ३८ ॥
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।हृतो राजेति योधानां समीपस्थे यतव्रते ॥ ३९ ॥
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ।आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥ ४० ॥
एवं संजल्पतां तेषां तावकानां महारथः ।आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥ ४१ ॥
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् ॥ ४२ ॥
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥ ४३ ॥
ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् ।छादयन्निषुजालेन महता मोहयन्निव ॥ ४४ ॥
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् ।नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥ ४५ ॥
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।अदृश्यत महाराज बाणभूतमिवाभवत् ॥ ४६ ॥
नादृश्यत तदा राजंस्तत्र किंचन संयुगे ।बाणान्धकारे महति कृते गाण्डीवधन्वना ॥ ४७ ॥
सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते ।नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन ॥ ४८ ॥
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ॥ ४९ ॥
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ।पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ॥ ५० ॥
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः ।पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥ ५१ ॥
मसारगल्वर्कसुवर्णरूप्यैर्वज्रप्रवालस्फटिकैश्च मुख्यैः ।चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः ॥ ५२ ॥
« »