Click on words to see what they mean.

संजय उवाच ।ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥ १ ॥
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ॥ २ ॥
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ॥ ३ ॥
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।त्वरमाणा महावीर्या माधवस्य वधैषिणः ॥ ४ ॥
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥ ५ ॥
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ॥ ६ ॥
हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् ।क्षुरप्रैः पातयामास तावकानां स माधवः ॥ ७ ॥
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत ।बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥ ८ ॥
तेषां तु युयुधानेन युध्यतां युधि भारत ।बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ॥ ९ ॥
तेन शब्देन महता पूरितासीद्वसुंधरा ।रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥ १० ॥
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ॥ ११ ॥
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः ।यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः ॥ १२ ॥
तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।सूतः संचोदयामास युयुधानरथं प्रति ॥ १३ ॥
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥ १४ ॥
ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः ।दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥ १५ ॥
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः ।शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥ १६ ॥
ततः समभवद्युद्धमाकुलं भरतर्षभ ।पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ॥ १७ ॥
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।सायकानामशीत्या तु विव्याधोरसि भारत ॥ १८ ॥
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥ १९ ॥
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते ।मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥ २० ॥
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् ।चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥ २१ ॥
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः ।चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ॥ २२ ॥
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ २३ ॥
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् ।द्रावयामास विशिखैर्निशामध्ये विशां पते ॥ २४ ॥
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः ।रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ।तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ॥ २५ ॥
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति ।अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥ २६ ॥
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् ।प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥ २७ ॥
ततस्तु समरे शूरः शकुनिः सौबलस्तदा ।विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥ २८ ॥
पुनश्चैव शतेनास्य संरुरोध महारथम् ।तमर्जुनस्तु विंशत्या विव्याध युधि भारत ॥ २९ ॥
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ।संवार्य तान्बाणगणैर्युधि राजन्धनंजयः ।अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ॥ ३० ॥
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः ।समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ॥ ३१ ॥
स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः ।उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः ॥ ३२ ॥
तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् ।ननाद च महानादं पूरयन्वसुधातलम् ॥ ३३ ॥
अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् ।निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥ ३४ ॥
ततो रथादवप्लुत्य सौबलो भरतर्षभ ।उलूकस्य रथं तूर्णमारुरोह विशां पते ॥ ३५ ॥
तावेकरथमारूढौ पितापुत्रौ महारथौ ।पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ ॥ ३६ ॥
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः ।विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥ ३७ ॥
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः ।विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ॥ ३८ ॥
तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि ।प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥ ३९ ॥
उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे ।संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥ ४० ॥
विजित्य समरे योधांस्तावकान्भरतर्षभ ।दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ ॥ ४१ ॥
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः ।चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥ ४२ ॥
तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः ।आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥ ४३ ॥
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः ।सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥ ४४ ॥
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः ।व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ॥ ४५ ॥
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष ।प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ॥ ४६ ॥
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी ।यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ॥ ४७ ॥
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् ।अत्यराजत तेजस्वी शक्रो देवगणेष्विव ॥ ४८ ॥
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ ।यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ॥ ४९ ॥
जित्वा रथसहस्राणि तावकानां महारथाः ।सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥ ५० ॥
पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः ।तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ॥ ५१ ॥
« »