Click on words to see what they mean.

संजय उवाच ।तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ॥ १ ॥
संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः ।अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ॥ २ ॥
धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया ।परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ॥ ३ ॥
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् ।पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ॥ ४ ॥
बलार्णवौ ततस्तौ तु समेयातां निशामुखे ।वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव ॥ ५ ॥
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः ।विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥ ६ ॥
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे ।चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ॥ ७ ॥
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ ।उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् ॥ ८ ॥
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् ।आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया ॥ ९ ॥
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा ।द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः ॥ १० ॥
स विसृष्टो बलवता शरो घोरो महामृधे ।भासयामास तत्सैन्यं दिवाकर इवोदितः ॥ ११ ॥
तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः ।स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ॥ १२ ॥
तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति ।कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् ॥ १३ ॥
स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष ।निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः ॥ १४ ॥
छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः ।धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ॥ १५ ॥
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः ।शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ॥ १६ ॥
दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः ।पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ॥ १७ ॥
स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे ।सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः ।द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ॥ १८ ॥
ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे ।विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ॥ १९ ॥
द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा ।त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २० ॥
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः ।स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ॥ २१ ॥
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् ।उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् ॥ २२ ॥
तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे ।महावातसमुद्धूतं पक्वं तालफलं यथा ॥ २३ ॥
तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः ।राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ॥ २४ ॥
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा ।निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ॥ २५ ॥
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् ।अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ॥ २६ ॥
दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः ।पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ॥ २७ ॥
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् ।मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ॥ २८ ॥
एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् ।धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ॥ २९ ॥
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् ।राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ॥ ३० ॥
तं सात्यकिर्महाराज विव्याध दशभिः शरैः ।पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ॥ ३१ ॥
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः ।आसीत्समागमो घोरो बलिवासवयोरिव ॥ ३२ ॥
त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः ।राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ॥ ३३ ॥
कम्पयन्निव घोषेण धनुषो वसुधां बली ।सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ॥ ३४ ॥
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि ।कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत ॥ ३५ ॥
तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः ।अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ॥ ३६ ॥
तावकाश्च महाराज कर्णपुत्रश्च दंशितः ।सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥ ३७ ॥
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो ।अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ॥ ३८ ॥
तेन बाणेन निर्विद्धो वृषसेनो विशां पते ।न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ॥ ३९ ॥
ततः कर्णो हतं मत्वा वृषसेनं महारथः ।पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत् ॥ ४० ॥
पीड्यमानस्तु कर्णेन युयुधानो महारथः ।विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः ॥ ४१ ॥
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः ।सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः ॥ ४२ ॥
तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे ।युयुधानमविध्येतां समन्तान्निशितैः शरैः ॥ ४३ ॥
वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये ।अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ॥ ४४ ॥
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् ।सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ४५ ॥
एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् ।पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ॥ ४६ ॥
श्रूयते रथघोषश्च वासवस्येव नर्दतः ।करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ॥ ४७ ॥
एषा विदीर्यते राजन्बहुधा भारती चमूः ।विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ॥ ४८ ॥
वातेनेव समुद्धूतमभ्रजालं विदीर्यते ।सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ॥ ४९ ॥
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः ।विद्धानां शतशो राजञ्श्रूयते निनदो महान् ।निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ॥ ५० ॥
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् ।शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ॥ ५१ ॥
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः ।इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ॥ ५२ ॥
एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः ।सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः ॥ ५३ ॥
सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् ।असंशयं महाराज ध्रुवो नो विजयो भवेत् ॥ ५४ ॥
सौभद्रवदिमौ वीरौ परिवार्य महारथौ ।प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ ॥ ५५ ॥
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत ।संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः ॥ ५६ ॥
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः ।यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ॥ ५७ ॥
ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् ।यथा तूर्णं व्रजत्येष परलोकाय माधवः ॥ ५८ ॥
कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् ।यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ॥ ५९ ॥
वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् ।रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम् ॥ ६० ॥
दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः ।एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ॥ ६१ ॥
जहि कृष्णौ महाबाहो धर्मराजं च मातुल ।नकुलं सहदेवं च भीमसेनं च भारत ॥ ६२ ॥
देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता ।जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ ६३ ॥
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः ।महत्या सेनया सार्धं तव पुत्रैस्तथा विभो ॥ ६४ ॥
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ।ततः प्रववृते युद्धं तावकानां परैः सह ॥ ६५ ॥
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् ।बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् ॥ ६६ ॥
अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् ।तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् ॥ ६७ ॥
महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत ।धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः ॥ ६८ ॥
« »