Click on words to see what they mean.

संजय उवाच ।नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ २ ॥
यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति ।तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ॥ ३ ॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।व्यराजेतां महाराज कण्टकैरिव शाल्मली ॥ ४ ॥
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥ ५ ॥
स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव ।कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ ६ ॥
नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना ।निषसाद रथोपस्थे कश्मलं चैनमाविशत् ॥ ७ ॥
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् ।ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥ ८ ॥
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः ।अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥ ९ ॥
संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ ।पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ॥ १० ॥
ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे ।ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥ ११ ॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ।अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥ १२ ॥
ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः ।निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ।अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ॥ १४ ॥
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते ।कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ॥ १५ ॥
गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् ।विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥ १६ ॥
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः ।पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥ १७ ॥
महद्युद्धं तयोरासीद्घोररूपं विशां पते ।यथा देवासुरे युद्धे शम्बरामरराजयोः ॥ १८ ॥
शरजालावृतं व्योम चक्रतुस्तौ महारथौ ।प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ॥ १९ ॥
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् ।कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा ॥ २० ॥
शिखण्डी तु महाराज गौतमस्य महद्धनुः ।अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥ २१ ॥
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् ।स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥ २२ ॥
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः ।सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ॥ २३ ॥
अथान्यद्धनुरादाय गौतमो रथिनां वरः ।प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥ २४ ॥
स छाद्यमानः समरे गौतमेन यशस्विना ।व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥ २५ ॥
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि ।आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥ २६ ॥
विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् ।पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥ २७ ॥
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् ।महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ॥ २८ ॥
रथानां च रणे राजन्नन्योन्यमभिधावताम् ।बभूव तुमुलः शब्दो मेघानां नदतामिव ॥ २९ ॥
द्रवतां सादिनां चैव गजानां च विशां पते ।अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥ ३० ॥
पत्तीनां द्रवतां चैव पदशब्देन मेदिनी ।अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥ ३१ ॥
रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् ।न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥ ३२ ॥
तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः ।तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥ ३३ ॥
सादी सादिनमासाद्य पदाती च पदातिनम् ।समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥ ३४ ॥
धावतां द्रवतां चैव पुनरावर्ततामपि ।बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ॥ ३५ ॥
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु ।अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥ ३६ ॥
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता ।दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥ ३७ ॥
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति ।तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम् ॥ ३८ ॥
शस्त्राणां कवचानां च मणीनां च महात्मनाम् ।अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥ ३९ ॥
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे ।अवधीत्समरे पुत्रं पिता भरतसत्तम ॥ ४० ॥
पुत्रश्च पितरं मोहात्सखायं च सखा तथा ।संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः ॥ ४१ ॥
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ॥ ४२ ॥
« »