Click on words to see what they mean.

संजय उवाच ।शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव ।चित्रसेनस्तव सुतो वारयामास भारत ॥ १ ॥
नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् ।स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥ २ ॥
चित्रसेनो महाराज शतानीकं पुनर्युधि ।नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ ३ ॥
नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः ।गात्रात्संच्यावयामास तदद्भुतमिवाभवत् ॥ ४ ॥
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप ।उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥ ५ ॥
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः ।धनुश्चैव महाराज यतमानस्य संयुगे ॥ ६ ॥
स छिन्नधन्वा समरे विवर्मा च महारथः ।धनुरन्यन्महाराज जग्राहारिविदारणम् ॥ ७ ॥
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः ।विव्याध समरे क्रुद्धो भरतानां महारथः ॥ ८ ॥
शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष ।जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥ ९ ॥
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः ।नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥ १० ॥
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे ।अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥ ११ ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥ १२ ॥
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् ।वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥ १३ ॥
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् ।षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥ १४ ॥
वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् ।बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥ १५ ॥
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे ।व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥ १६ ॥
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ १७ ॥
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ ।किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥ १८ ॥
वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः ।विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ॥ १९ ॥
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा ।कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥ २० ॥
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् ।संप्राद्रवद्रणे राजन्निशीथे भैरवे सति ॥ २१ ॥
प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः ।व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ॥ २२ ॥
तथाङ्गदैर्निपतितैर्व्यराजत वसुंधरा ।प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ॥ २३ ॥
ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः ।यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥ २४ ॥
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः ।व्यराजन्त महाराज प्रदीपैरवभासिताः ॥ २५ ॥
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत ।मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ॥ २६ ॥
तेषु राजसहस्रेषु तावकेषु परेषु च ।एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥ २७ ॥
स विजित्य रणे शूरान्सोमकानां महारथान् ।जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥ २८ ॥
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् ।दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ॥ २९ ॥
तयोः समागमो राजंश्चित्ररूपो बभूव ह ।व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ॥ ३० ॥
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् ।दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥ ३१ ॥
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना ।विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥ ३२ ॥
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः ।नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ ३३ ॥
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् ।प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ॥ ३४ ॥
सारथिं चास्य भल्लेन ध्वजं च समपातयत् ।रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ॥ ३५ ॥
पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो ।चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ॥ ३६ ॥
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः ।अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥ ३७ ॥
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् ।अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् ॥ ३८ ॥
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः ।अन्ववर्तन्त वेगेन महत्या सेनया सह ॥ ३९ ॥
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् ।धनुर्गृह्य महाराज विव्याध तनयं तव ॥ ४० ॥
ततस्तु तावकाः सर्वे परिवार्य सुतं तव ।अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः ॥ ४१ ॥
ततः प्रववृते युद्धं तव तेषां च भारत ।निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ ४२ ॥
« »