Click on words to see what they mean.

संजय उवाच ।सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते ।कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ १ ॥
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥ २ ॥
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥ ३ ॥
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् ।कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥ ४ ॥
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः ।सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥ ५ ॥
विरथः सहदेवस्तु खड्गं चर्म समाददे ।तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥ ६ ॥
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् ।प्रेषयामास समरे वैकर्तनरथं प्रति ॥ ७ ॥
तामापतन्तीं सहसा सहदेवप्रवेरिताम् ।व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥ ८ ॥
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥ ९ ॥
ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् ।सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ।रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥ १० ॥
तमापतन्तं सहसा कालचक्रमिवोद्यतम् ।शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥ ११ ॥
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना ।वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥ १२ ॥
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥ १३ ॥
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह ।सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥ १४ ॥
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः ।एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ।तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥ १५ ॥
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥ १६ ॥
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः ॥ १७ ॥
सहदेवस्ततो राजन्विमनाः शरपीडितः ।कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत ॥ १८ ॥
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।जनमेजयस्य समरे त्वरायुक्तो महारथः ॥ १९ ॥
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।मद्रराजः शरौघेण छादयामास धन्विनम् ॥ २० ॥
तयोः समभवद्युद्धं समरे दृढधन्विनोः ।यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥ २१ ॥
मद्रराजो महाराज विराटं वाहिनीपतिम् ।आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥ २२ ॥
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः ।पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥ २३ ॥
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥ २४ ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥ २५ ॥
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥ २६ ॥
शतानीकमथायान्तं मद्रराजो महामृधे ।विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥ २७ ॥
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥ २८ ॥
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥ २९ ॥
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् ।आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥ ३० ॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।सारथिस्तमपोवाह समरे शरविक्षतम् ॥ ३१ ॥
ततः सा महती सेना प्राद्रवन्निशि भारत ।वध्यमाना शरशतैः शल्येनाहवशोभिना ॥ ३२ ॥
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ ।प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥ ३३ ॥
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः ।अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥ ३४ ॥
तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः ।लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥ ३५ ॥
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ ३६ ॥
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ।रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥ ३७ ॥
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे ।द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥ ३८ ॥
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् ।नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥ ३९ ॥
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥ ४० ॥
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥ ४१ ॥
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।किरञ्शरगणान्राजन्नरवारणवाजिषु ॥ ४२ ॥
वध्यमाना महाराज पाण्डवेन यशस्विना ।सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥ ४३ ॥
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना ।संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥ ४४ ॥
« »