Click on words to see what they mean.

संजय उवाच ।भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ॥ १ ॥
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः ।विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ॥ २ ॥
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् ।दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ॥ ३ ॥
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् ।क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ॥ ४ ॥
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा ।क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ ५ ॥
तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ ।मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥ ६ ॥
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव ।धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥ ७ ॥
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः ।विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥ ९ ॥
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते ।धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥ १० ॥
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः ।प्रजहार महावेगां शक्तिं तस्य महोरसि ॥ ११ ॥
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् ।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ १२ ॥
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः ।अभ्यधावत वेगेन शैनेयं प्रति संयुगे ।अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ १३ ॥
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति ।घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥ १४ ॥
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ।युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ १५ ॥
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा ।द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ १६ ॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ १७ ॥
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः ।शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥ १८ ॥
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः ।समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ॥ १९ ॥
स शरैराचितस्तेन राक्षसो रणमूर्धनि ।व्यकाशत महाराज श्वाविच्छललितो यथा ॥ २० ॥
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् ।शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ॥ २१ ॥
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः ।वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ॥ २२ ॥
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् ।पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥ २३ ॥
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः ।व्यधमत्स महातेजा महाभ्राणीव मारुतः ॥ २४ ॥
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ।घोररूपो महाराज योधानां हर्षवर्धनः ॥ २५ ॥
ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः ।बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥ २६ ॥
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥ २७ ॥
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ॥ २८ ॥
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे ।जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः ॥ २९ ॥
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः ।चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ।स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः ॥ ३० ॥
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप ।हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ॥ ३१ ॥
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे ।पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ ३२ ॥
प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः ।धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥ ३३ ॥
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ ३४ ॥
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः ।विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ॥ ३५ ॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ॥ ३६ ॥
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् ।द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥ ३७ ॥
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ।ननाद सुमहानादं द्रोणपुत्रो महाबलः ॥ ३८ ॥
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत ।वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ॥ ३९ ॥
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति ।स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥ ४० ॥
तं भीमसेनो नवभिः शरैर्विव्याध मारिष ।दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥ ४१ ॥
तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे ।मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥ ४२ ॥
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः ।पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ॥ ४३ ॥
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः ।विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥ ४४ ॥
ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष ।चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ॥ ४५ ॥
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् ।कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ४६ ॥
दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष ।क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥ ४७ ॥
अथान्यद्धनुरादाय भीमसेनो महाबलः ।विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥ ४८ ॥
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् ।द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥ ४९ ॥
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् ।तव पुत्रो महाराज जितकाशी मदोत्कटः ॥ ५० ॥
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः ।शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥ ५१ ॥
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः ।पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥ ५२ ॥
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् ।चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥ ५३ ॥
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे ।सारथिं च गदा गुर्वी ममर्द भरतर्षभ ॥ ५४ ॥
पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् ।आप्लुतः सहसा यानं नन्दकस्य महात्मनः ॥ ५५ ॥
ततो भीमो हतं मत्वा तव पुत्रं महारथम् ।सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ॥ ५६ ॥
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ।ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ॥ ५७ ॥
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् ।भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥ ५८ ॥
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् ।अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥ ५९ ॥
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते ।सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥ ६० ॥
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह ।घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥ ६१ ॥
« »