Click on words to see what they mean.

संजय उवाच ।वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते ।सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥ १ ॥
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् ।अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ॥ २ ॥
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा ।द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ ३ ॥
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः ।यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ॥ ४ ॥
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् ।द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ॥ ५ ॥
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः ।अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि ॥ ६ ॥
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् ।कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥ ७ ॥
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् ।स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ॥ ८ ॥
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् ।शकुनिः सौबलो राजन्वारयामास सत्वरः ॥ ९ ॥
शिखण्डिनमथायान्तं रथेन रथिनां वरम् ।कृपो शारद्वतो राजन्वारयामास संयुगे ॥ १० ॥
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः ।दुःशासनो महाराज यत्तो यत्तमवारयत् ॥ ११ ॥
भैमसेनिमथायान्तं मायाशतविशारदम् ।अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ॥ १२ ॥
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् ।वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥ १३ ॥
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति ।मद्रराजः सुसंक्रुद्धो वारयामास भारत ॥ १४ ॥
शतानीकमथायान्तं नाकुलिं रभसं रणे ।चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ॥ १५ ॥
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् ।अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ॥ १६ ॥
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे ।धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥ १७ ॥
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् ।तावका रथिनो राजन्वारयामासुरोजसा ॥ १८ ॥
गजारोहा गजैस्तूर्णं संनिपत्य महामृधे ।योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ १९ ॥
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् ।समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ॥ २० ॥
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः ।समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥ २१ ॥
नरास्तु बहवस्तत्र समाजग्मुः परस्परम् ।गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः ॥ २२ ॥
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् ।वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥ २३ ॥
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ।पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥ २४ ॥
कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष ।धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ २५ ॥
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः ।हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ २६ ॥
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष ।प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥ २७ ॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च ।प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ॥ २८ ॥
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् ।प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ॥ २९ ॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥ ३० ॥
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् ।चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ॥ ३१ ॥
सा हेमचित्रा महती पाण्डवेन प्रवेरिता ।निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥ ३२ ॥
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः ।हार्दिक्यं छादयामास शरैः संनतपर्वभिः ॥ ३३ ॥
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी ।व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥ ३४ ॥
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे ।तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥ ३५ ॥
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् ।प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥ ३६ ॥
तमापतन्तं सहसा धर्मराजभुजच्युतम् ।द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥ ३७ ॥
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् ।कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥ ३८ ॥
हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः ।व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥ ३९ ॥
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः ।अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥ ४० ॥
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् ।पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ॥ ४१ ॥
« »