Click on words to see what they mean.

धृतराष्ट्र उवाच ।बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय ।त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ॥ १ ॥
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः ।कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ॥ २ ॥
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् ।तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ॥ ३ ॥
संजय उवाच ।सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् ।समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ॥ ४ ॥
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् ।जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ ५ ॥
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् ।एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ॥ ६ ॥
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् ।शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ॥ ७ ॥
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् ।ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ॥ ८ ॥
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः ।सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः ॥ ९ ॥
पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् ।पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ॥ १० ॥
न हि मद्राधिपादन्यः सर्वराजसु भारत ।सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ ११ ॥
तथा मद्राधिपस्यापि गदावेगं महात्मनः ।सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ॥ १२ ॥
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी ।प्रजज्वाल तथाविद्धा भीमेन महती गदा ॥ १३ ॥
तथैव चरतो मार्गान्मण्डलानि च भागशः ।महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ॥ १४ ॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ॥ १५ ॥
मण्डलावर्तमार्गेषु गदाविहरणेषु च ।निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ १६ ॥
ताडिता भीमसेनेन शल्यस्य महती गदा ।साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ॥ १७ ॥
तथैव भीमसेनस्य द्विषताभिहता गदा ।वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ॥ १८ ॥
गदा क्षिप्ता तु समरे मद्रराजेन भारत ।व्योम संदीपयाना सा ससृजे पावकं बहु ॥ १९ ॥
तथैव भीमसेनेन द्विषते प्रेषिता गदा ।तापयामास तत्सैन्यं महोल्का पतती यथा ॥ २० ॥
ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् ।श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ॥ २१ ॥
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ ।तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ॥ २२ ॥
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ ।ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ २३ ॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।गदाभिघातसंह्रादः शक्राशनिरवोपमः ॥ २४ ॥
गदया मद्रराजेन सव्यदक्षिणमाहतः ।नाकम्पत तदा भीमो भिद्यमान इवाचलः ॥ २५ ॥
तथा भीमगदावेगैस्ताड्यमानो महाबलः ।धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ॥ २६ ॥
आपेततुर्महावेगौ समुच्छ्रितमहागदौ ।पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ २७ ॥
अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव ।सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥ २८ ॥
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ ।युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ॥ २९ ॥
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः ।शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ॥ ३० ॥
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् ।विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ॥ ३१ ॥
ततः सगदमारोप्य मद्राणामधिपं रथम् ।अपोवाह रणात्तूर्णं कृतवर्मा महारथः ॥ ३२ ॥
क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः ।भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥ ३३ ॥
ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् ।सनागरथपत्त्यश्वाः समकम्पन्त मारिष ॥ ३४ ॥
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः ।भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥ ३५ ॥
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः ।व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ॥ ३६ ॥
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः ।भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ॥ ३७ ॥
« »