Click on words to see what they mean.

संजय उवाच ।प्रकाशिते तथा लोके रजसा च तमोवृते ।समाजग्मुरथो वीराः परस्परवधैषिणः ॥ १ ॥
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः ।परस्परमुदैक्षन्त परस्परकृतागसः ॥ २ ॥
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः ।विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ॥ ३ ॥
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत ।दह्यमानेव लोकानामभावे वै वसुंधरा ॥ ४ ॥
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः ।वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥ ५ ॥
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् ।नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ॥ ६ ॥
रथा रथवरैरेव समाजग्मुर्मुदान्विताः ।तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ॥ ७ ॥
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् ।व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥ ८ ॥
धृतराष्ट्र उवाच ।तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् ।अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ॥ ९ ॥
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने ।दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ १० ॥
के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् ।केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ॥ ११ ॥
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः ।के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ॥ १२ ॥
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः ।नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥ १३ ॥
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् ।धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ॥ १४ ॥
अव्यग्रानेव हि परान्कथयस्यपराजितान् ।हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ।रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ १५ ॥
संजय उवाच ।द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् ।दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ॥ १६ ॥
विकर्णं चित्रसेनं च महाबाहुं च कौरवम् ।दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ १७ ॥
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः ।हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥ १८ ॥
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः ।तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ॥ १९ ॥
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः ।तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ॥ २० ॥
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी ।निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥ २१ ॥
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः ।द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ॥ २२ ॥
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् ।यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ॥ २३ ॥
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् ।स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ॥ २४ ॥
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे ।धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ॥ २५ ॥
तथार्जुनं रणे कर्णो विजेष्यति महारथः ।भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ॥ २६ ॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः ॥ २७ ॥
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ॥ २८ ॥
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ ।उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ॥ २९ ॥
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः ।नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ॥ ३० ॥
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् ।छादयामासतुः संख्ये शरैः संनतपर्वभिः ॥ ३१ ॥
पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष ।आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥ ३२ ॥
नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् ।युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ॥ ३३ ॥
« »