Click on words to see what they mean.

संजय उवाच ।दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः ।प्रत्युवाच महाबाहो यथा वदसि कौरव ॥ १ ॥
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे ।तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ।शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥ २ ॥
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च ।निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥ ३ ॥
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह ।क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥ ४ ॥
युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् ।तेजस्तु तेज आसाद्य प्रशमं याति भारत ॥ ५ ॥
अशक्या तरसा जेतुं पाण्डवानामनीकिनी ।जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥ ६ ॥
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः ।किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ ७ ॥
त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव ।सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ॥ ८ ॥
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः ।एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन ॥ ९ ॥
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ।पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ।पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम ॥ १० ॥
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा ।सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः ॥ ११ ॥
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् ।अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥ १२ ॥
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः ।दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह ॥ १३ ॥
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत ।न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः ॥ १४ ॥
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव ।अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः ।चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥ १५ ॥
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः ।प्रहरध्वमितः सर्वे मम गात्रे महारथाः ।स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥ १६ ॥
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् ।द्रौणिं प्रति महाराज जलं जलधरा इव ॥ १७ ॥
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् ।प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ॥ १८ ॥
ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा ।परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥ १९ ॥
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् ।धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ॥ २० ॥
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् ।वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥ २१ ॥
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः ।द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥ २२ ॥
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव ।समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ।अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥ २३ ॥
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् ।मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ॥ २४ ॥
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः ।रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ।मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥ २५ ॥
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः ।मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत ॥ २६ ॥
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय ।यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ २७ ॥
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा ।छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ॥ २८ ॥
स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः ।द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥ २९ ॥
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च ।द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ।ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥ ३० ॥
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते ।निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ।नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् ॥ ३१ ॥
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च ।तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥ ३२ ॥
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः ।स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम ॥ ३३ ॥
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः ।क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३४ ॥
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत ।छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥ ३५ ॥
स छाद्यमानः समरे द्रौणिना राजसत्तम ।सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ॥ ३६ ॥
नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः ।सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥ ३७ ॥
तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे ।निवारयन्तौ बाणौघैः परस्परममर्षिणौ ।उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ ३८ ॥
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् ।दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः ॥ ३९ ॥
शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा ।अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥ ४० ॥
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ ।परस्परवधे यत्तौ परस्परजयैषिणौ ॥ ४१ ॥
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च ।संपूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥ ४२ ॥
तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव ।उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥ ४३ ॥
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष ।वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥ ४४ ॥
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने ।मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् ॥ ४५ ॥
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः ।ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी ।सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ॥ ४६ ॥
पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः ।व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ॥ ४७ ॥
ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ ।दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥ ४८ ॥
शतेन च शतं हत्वा पाञ्चालानां महारथः ।त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥ ४९ ॥
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः ।नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥ ५० ॥
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः ।अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥ ५१ ॥
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः ।ननाद सुमहानादं तपान्ते जलदो यथा ॥ ५२ ॥
स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत ।युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ ५३ ॥
संपूज्यमानो युधि कौरवेयैर्विजित्य संख्येऽरिगणान्सहस्रशः ।व्यरोचत द्रोणसुतः प्रतापवान्यथा सुरेन्द्रोऽरिगणान्निहत्य ॥ ५४ ॥
« »