Click on words to see what they mean.

संजय उवाच ।ततः स पाण्डवानीके जनयंस्तुमुलं महत् ।व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ॥ १ ॥
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् ।दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ॥ २ ॥
प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः ।ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥ ३ ॥
रथिनः सादिनश्चैव नागानश्वान्पदातिनः ।रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ ४ ॥
नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये ।अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥ ५ ॥
व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः ।वर्धयामास संत्रासं शात्रवाणाममानुषम् ॥ ६ ॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ॥ ७ ॥
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः ।युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ॥ ८ ॥
अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् ।बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ॥ ९ ॥
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् ।कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥ १० ॥
मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् ।संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥ ११ ॥
नरनागाश्वसंभूतां शरवेगौघवाहिनीम् ।शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ॥ १२ ॥
उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् ।रथनागह्रदोपेतां नानाभरणनीरजाम् ॥ १३ ॥
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् ।महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् ॥ १४ ॥
शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् ।छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् ॥ १५ ॥
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् ।बडगृध्रसृगालानां घोरसंघैर्निषेविताम् ॥ १६ ॥
निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः ।वहन्तीं पितृलोकाय शतशो राजसत्तम ॥ १७ ॥
शरीरशतसंबाधां केशशैवलशाद्वलाम् ।नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ॥ १८ ॥
तं जयन्तमनीकानि तानि तान्येव भारत ।सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥ १९ ॥
तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः ।सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ॥ २० ॥
शतमायस्तु शकुनिः सहदेवं समाद्रवत् ।सनियन्तृध्वजरथं विव्याध निशितैः शरैः ॥ २१ ॥
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि ।नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ॥ २२ ॥
सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् ।स तस्य गदया राजन्रथात्सूतमपातयत् ॥ २३ ॥
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ ।चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥ २४ ॥
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः ।बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ॥ २५ ॥
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः ।विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥ २६ ॥
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् ।भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥ २७ ॥
स तन्न ममृषे वीरः शत्रोर्विजयमाहवे ।ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ॥ २८ ॥
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः ।विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ॥ २९ ॥
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः ।निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान् ॥ ३० ॥
धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् ।कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ॥ ३१ ॥
तं कृपः शरवर्षेण महता समवाकिरत् ।निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ॥ ३२ ॥
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे ।विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥ ३३ ॥
सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः ।नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥ ३४ ॥
सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् ।स चापि तं तोमरेण जत्रुदेशे अताडयत् ॥ ३५ ॥
वैकर्तनं तु समरे विराटः प्रत्यवारयत् ।सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥ ३६ ॥
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् ।यत्सैन्यं वारयामास शरैः संनतपर्वभिः ॥ ३७ ॥
द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः ।तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥ ३८ ॥
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् ।महता सायकौघेन छादयामास वीर्यवान् ॥ ३९ ॥
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते ।नवत्या सायकानां तु कम्पयामास भारत ॥ ४० ॥
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ ।चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ॥ ४१ ॥
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् ।अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥ ४२ ॥
चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् ।यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ४३ ॥
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् ।यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥ ४४ ॥
ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥ ४५ ॥
ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः ।तेन चक्रे महद्युद्धमभिमन्युररिंदमः ॥ ४६ ॥
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् ।तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥ ४७ ॥
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः ।पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ ४८ ॥
ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः ।समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥ ४९ ॥
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः ।तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ।उद्बबर्ह सितं खड्गमाददानः शरावरम् ॥ ५० ॥
स तेनानेकतारेण चर्मणा कृतहस्तवत् ।भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥ ५१ ॥
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् ।चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥ ५२ ॥
स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ ५३ ॥
जघानास्य पदा सूतमसिनापातयद्ध्वजम् ।विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ ५४ ॥
तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः ।उक्षाणमिव सिंहेन पात्यमानमचेतनम् ॥ ५५ ॥
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् ।पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ॥ ५६ ॥
स बर्हिणमहावाजं किङ्किणीशतजालवत् ।चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥ ५७ ॥
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥ ५८ ॥
प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः संप्रवेरितान् ।चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ॥ ५९ ॥
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः ।तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ॥ ६० ॥
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ ६१ ॥
तौ परस्परमासाद्य खड्गदन्तनखायुधौ ।हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव ॥ ६२ ॥
संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः ।न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ ६३ ॥
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् ।बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ॥ ६४ ॥
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ।ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥ ६५ ॥
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः ।शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ ६६ ॥
रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ ६७ ॥
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ ६८ ॥
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ६९ ॥
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः ।ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ ७० ॥
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ ७१ ॥
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ ७२ ॥
तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् ।वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ ७३ ॥
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः ।सहिताः सर्वराजानः सिंहनादमथानदन् ॥ ७४ ॥
ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ॥ ७५ ॥
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ ७६ ॥
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ।यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ॥ ७७ ॥
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ।प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ।तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ ७८ ॥
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ ७९ ॥
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् ।आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ८० ॥
« »