Click on words to see what they mean.

संजय उवाच ।तदुदीर्णगजाश्वौघं बलं तव जनाधिप ।पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ॥ १ ॥
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।यमराष्ट्राय महते परलोकाय दीक्षिताः ॥ २ ॥
शूराः शूरैः समागम्य शरतोमरशक्तिभिः ।विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ॥ ३ ॥
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् ।प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥ ४ ॥
वारणाश्च महाराज समासाद्य परस्परम् ।विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः ॥ ५ ॥
हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः ।बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥ ६ ॥
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः ।अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे ॥ ७ ॥
गोत्राणां नामधेयानां कुलानां चैव मारिष ।श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥ ८ ॥
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः ।प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥ ९ ॥
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः ।न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ॥ १० ॥
तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः ।दुर्योधनो महाराज व्यवगाहत तद्बलम् ॥ ११ ॥
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम् ॥ १२ ॥
नादयन्रथघोषेण कम्पयन्निव मेदिनीम् ।अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥ १३ ॥
स संनिपातस्तुमुलस्तस्य तेषां च भारत ।अभवत्सर्वसैन्यानामभावकरणो महान् ॥ १४ ॥
मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः ।तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ॥ १५ ॥
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् ।पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥ १६ ॥
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ।रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ।अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥ १७ ॥
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः ।यादृशं कृतवान्राजा पुत्रस्तव विशां पते ॥ १८ ॥
पुत्रेण तव सा सेना पाण्डवी मथिता रणे ।नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥ १९ ॥
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी ।बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ २० ॥
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत ।भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥ २१ ॥
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ २२ ॥
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः ।केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥ २३ ॥
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ।घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥ २४ ॥
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे ।शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ २५ ॥
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः ।भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ २६ ॥
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः ।मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन् ॥ २७ ॥
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् ।वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ॥ २८ ॥
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष ।शरं परमदुर्वारं प्रेषयामास संयुगे ।स तेन भृशसंविद्धो निषसाद रथोत्तमे ॥ २९ ॥
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् ।हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥ ३० ॥
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष ।अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥ ३१ ॥
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् ।तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ ३२ ॥
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः ।तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ।चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ॥ ३३ ॥
ततो राजन्महानासीत्संग्रामो भूरिवर्धनः ।तावकानां परेषां च समेतानां युयुत्सया ॥ ३४ ॥
« »