Click on words to see what they mean.

धृतराष्ट्र उवाच ।सिन्धुराजे हते तात समरे सव्यसाचिना ।तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥ १ ॥
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि ।किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।निष्टानको महानासीत्सैन्यानां तव भारत ।सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥ ३ ॥
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥ ४ ॥
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ॥ ५ ॥
दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि ।अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥ ६ ॥
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे ।यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥ ७ ॥
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः ।तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥ ८ ॥
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि ।तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ॥ ९ ॥
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि ।अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ॥ १० ॥
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः ।यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ॥ ११ ॥
तास्ता विलपतश्चापि विदुरस्य महात्मनः ।धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥ १२ ॥
तदिदं वर्तते घोरमागतं वैशसं महत् ।तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ॥ १३ ॥
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् ।अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ॥ १४ ॥
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया ।नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ॥ १५ ॥
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह ।प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ॥ १६ ॥
पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥ १७ ॥
पाण्डवानामयं कोपस्त्वया शकुनिना सह ।आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ॥ १८ ॥
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ॥ १९ ॥
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् ।सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥ २० ॥
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥ २१ ॥
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते ।सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ॥ २२ ॥
मय्येव हि विशेषेण तथा दुर्योधन त्वयि ।आशंसत परित्राणमर्जुनात्स महीपतिः ॥ २३ ॥
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् ।न किंचिदनुपश्यामि जीवितत्राणमात्मनः ॥ २४ ॥
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे ।पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥ २५ ॥
तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि ।अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥ २६ ॥
सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः ।अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥ २७ ॥
मध्ये महारथानां च यत्राहन्यत सैन्धवः ।हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥ २८ ॥
कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥ २९ ॥
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ।अवध्यकल्पं संग्रामे देवैरपि सवासवैः ॥ ३० ॥
न ते वसुंधरास्तीति तदहं चिन्तये नृप ।इमानि पाण्डवानां च सृञ्जयानां च भारत ।अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ॥ ३१ ॥
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् ।कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ ३२ ॥
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥ ३३ ॥
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय ।आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ॥ ३४ ॥
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् ।धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ॥ ३५ ॥
चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः ।न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥ ३६ ॥
एष त्वहमनीकानि प्रविशाम्यरिसूदन ।रणाय महते राजंस्त्वया वाक्शल्यपीडितः ॥ ३७ ॥
त्वं च दुर्योधन बलं यदि शक्नोषि धारय ।रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥ ३८ ॥
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् ।मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥ ३९ ॥
« »