Click on words to see what they mean.

संजय उवाच ।ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत ।पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥ १ ॥
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् ।अब्रवीद्वासुदेवं च पाण्डवं च धनंजयम् ॥ २ ॥
दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ ।दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥ ३ ॥
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता ।दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥ ४ ॥
न तेषां दुष्करं किंचित्त्रिषु लोकेषु विद्यते ।सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ ५ ॥
तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् ।यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ॥ ६ ॥
पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा ।ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥ ७ ॥
न तेषां विद्यते पापं संग्रामे वा पराजयः ।त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥ ८ ॥
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः ।त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥ ९ ॥
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर ।अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥ १० ॥
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन ।सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ ११ ॥
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् ।स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥ १२ ॥
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् ।त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥ १३ ॥
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् ।ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥ १४ ॥
अनादिनिधनं देवं लोककर्तारमव्ययम् ।त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥ १५ ॥
परं पुराणं पुरुषं पुराणानां परं च यत् ।प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥ १६ ॥
योऽगात चतुरो वेदान्यश्च वेदेषु गीयते ।तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥ १७ ॥
धनंजयसखा यश्च धनंजयहितश्च यः ।तं धनंजयगोप्तारं प्रपद्य सुखमेधते ॥ १८ ॥
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ ।तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ॥ १९ ॥
तव कोपाग्निना दग्धः पापो राजा जयद्रथः ।उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥ २० ॥
हन्यते निहतं चैव विनङ्क्ष्यति च भारत ।तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥ २१ ॥
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः ।समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥ २२ ॥
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः ।शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ २३ ॥
दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन ।याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ॥ २४ ॥
राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च ।अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥ २५ ॥
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् ।राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ॥ २६ ॥
ततो भीमो महाबाहुः सात्यकिश्च महारथः ।अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ।स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥ २७ ॥
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ ।अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥ २८ ॥
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् ।द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ।दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः ॥ २९ ॥
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ।दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः ॥ ३० ॥
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ ।समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ।मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ॥ ३१ ॥
इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ ।सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥ ३२ ॥
ततः प्रमुदितं सर्वं बलमासीद्विशां पते ।पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ॥ ३३ ॥
« »