Click on words to see what they mean.

संजय उवाच ।ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥ १ ॥
तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत ।आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ॥ २ ॥
ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः ।अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः ॥ ३ ॥
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥ ४ ॥
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन ।तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥ ५ ॥
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥ ६ ॥
अर्जुन उवाच ।यथा मे न वधः कार्य आचार्यस्य कथंचन ।तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥ ७ ॥
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन ॥ ८ ॥
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन ॥ ९ ॥
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥ १० ॥
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥ ११ ॥
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥ १२ ॥
न स्मराम्यनृतां वाचं न स्मरामि पराजयम् ।न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् ॥ १३ ॥
संजय उवाच ।ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥ १४ ॥
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ।धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥ १५ ॥
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः ।त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥ १६ ॥
ततो व्यूढान्यनीकानि तव तेषां च भारत ।शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥ १७ ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥ १८ ॥
यतमानाः प्रयत्नेन द्रोणानीकविशातने ।न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥ १९ ॥
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥ २० ॥
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥ २१ ॥
ततो रुक्मरथो राजन्नर्केणेव विराजता ।वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥ २२ ॥
तमुद्यतं रथेनैकमाशुकारिणमाहवे ।अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः ॥ २३ ॥
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥ २४ ॥
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः ।यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥ २५ ॥
न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष ।वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥ २६ ॥
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥ २७ ॥
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥ २८ ॥
« »