Click on words to see what they mean.

संजय उवाच ।तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् ।क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ १ ॥
तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम् ।अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ॥ २ ॥
चिराभिलषितं काममद्य प्राप्स्यामि संयुगे ।न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ ३ ॥
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥ ४ ॥
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥ ५ ॥
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥ ६ ॥
अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः ।त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥ ७ ॥
चिराभिलषितो ह्यद्य त्वया सह समागमः ।पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ ८ ॥
अद्य युद्धं महाघोरं तव दास्यामि सात्वत ।ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥ ९ ॥
अद्य संयमनीं याता मया त्वं निहतो रणे ।यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ॥ १० ॥
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ॥ ११ ॥
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥ १२ ॥
चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे ।सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥ १३ ॥
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।कौरवेय न संत्रासो विद्यते मम संयुगे ॥ १४ ॥
स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम् ।समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ॥ १५ ॥
किं मृषोक्तेन बहुना कर्मणा तु समाचर ।शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ॥ १६ ॥
श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते ।चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ॥ १७ ॥
त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि ।नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम ॥ १८ ॥
अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ ।जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ॥ १९ ॥
समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे ।द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ ॥ २० ॥
भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ ।शरवर्षाणि भीमानि मेघाविव परस्परम् ॥ २१ ॥
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः ।जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ २२ ॥
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् ।मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम् ॥ २३ ॥
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते ।अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥ २४ ॥
तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम् ।उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ॥ २५ ॥
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥ २६ ॥
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् ।व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥ २७ ॥
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ ।परस्परमयुध्येतां वारणाविव यूथपौ ॥ २८ ॥
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ ।जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ॥ २९ ॥
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् ।हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥ ३० ॥
संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती ।यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥ ३१ ॥
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च ।विरथावसियुद्धाय समेयातां महारणे ॥ ३२ ॥
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ।विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥ ३३ ॥
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः ।मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ॥ ३४ ॥
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ ।रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् ॥ ३५ ॥
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् ।पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥ ३६ ॥
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे ।निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ ३७ ॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ ३८ ॥
तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा ।शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥ ३९ ॥
तयोर्नृवरयो राजन्समरे युध्यमानयोः ।भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥ ४० ॥
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ ।युयुधाते महात्मानौ कुरुसात्वतपुंगवौ ॥ ४१ ॥
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः ।पश्यस्वैनं विरथं युध्यमानं रणे केतुं सर्वधनुर्धराणाम् ॥ ४२ ॥
प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः ।योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥ ४३ ॥
परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम् ।युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ॥ ४४ ॥
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् ।उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ॥ ४५ ॥
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ॥ ४६ ॥
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत ।पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥ ४७ ॥
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ॥ ४८ ॥
न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् ।त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ॥ ४९ ॥
अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः ।पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम् ।महाद्विपेनेव वने मत्तेन हरियूथपम् ॥ ५० ॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ।यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ ५१ ॥
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः ।व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ ५२ ॥
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे ।मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ॥ ५३ ॥
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे ।वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ॥ ५४ ॥
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ।तव शिष्यं महाबाहो धनुष्यनवरं त्वया ॥ ५५ ॥
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ ५६ ॥
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः ।मनसा पूजयामास भूरिश्रवसमाहवे ॥ ५७ ॥
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे ।संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ॥ ५८ ॥
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् ।महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ॥ ५९ ॥
एवं तु मनसा राजन्पार्थः संपूज्य कौरवम् ।वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ॥ ६० ॥
सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव ।एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥ ६१ ॥
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः ।सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ॥ ६२ ॥
« »