Click on words to see what they mean.

धृतराष्ट्र उवाच ।महानपनयः सूत ममैवात्र विशेषतः ।स इदानीमनुप्राप्तो मन्ये संजय शोचतः ॥ १ ॥
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥ २ ॥
यथा त्वेष क्षयो वृत्तो ममापनयसंभवः ।वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय ॥ ३ ॥
संजय उवाच ।कर्णभीमौ महाराज पराक्रान्तौ महाहवे ।बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥ ४ ॥
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥ ५ ॥
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः ।आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥ ६ ॥
तयोः शरैर्महाराज संपतद्भिः समन्ततः ।बभूव तव सैन्यानां संक्षोभः सागरोपमः ॥ ७ ॥
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम ।अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥ ८ ॥
वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥ ९ ॥
ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥ १० ॥
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् ।प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥ ११ ॥
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः ।उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥ १२ ॥
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥ १३ ॥
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः ।शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥ १४ ॥
ततः प्रावर्तत नदी घोररूपा महाहवे ।बभूव च विशेषेण भीरूणां भयवर्धिनी ॥ १५ ॥
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा ।संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥ १६ ॥
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः ।स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥ १७ ॥
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः ।सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥ १८ ॥
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥ १९ ॥
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥ २० ॥
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः ।तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥ २१ ॥
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ।गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥ २२ ॥
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा ।पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥ २३ ॥
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ।दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥ २४ ॥
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ।आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।निपातितध्वजरथं हतवाजिनरद्विपम् ॥ २५ ॥
गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा ।तथाभूतं महत्सैन्यमासीद्भारत संयुगे ।विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥ २६ ॥
« »