Click on words to see what they mean.

संजय उवाच ।भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् ।नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥ १ ॥
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् ।तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥ २ ॥
भीमसेनेन निहतान्विमना दुःखितोऽभवत् ।निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥ ३ ॥
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥ ४ ॥
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ ।कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥ ५ ॥
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः ।विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥ ६ ॥
कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥ ७ ॥
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥ ८ ॥
खं पूरयन्महावेगान्खगमान्खगवाससः ।सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥ ९ ॥
तमन्तकमिवायस्तमापतन्तं वृकोदरः ।त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥ १० ॥
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः ।महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥ ११ ॥
ततो विधम्याधिरथेः शरजालानि पाण्डवः ।विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥ १२ ॥
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः ।तथैव कर्णं समरे छादयामास पाण्डवः ॥ १३ ॥
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥ १४ ॥
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः ।उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥ १५ ॥
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः ।साधु साध्विति वेगेन सिंहनादमथानदन् ॥ १६ ॥
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे ।अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥ १७ ॥
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः ।कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥ १८ ॥
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः ।ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ १९ ॥
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष ।भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥ २० ॥
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥ २१ ॥
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः ।प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥ २२ ॥
ततो वामेन कौन्तेयः पीडयित्वा शरासनम् ।मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥ २३ ॥
मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् ।तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥ २४ ॥
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव ।भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥ २५ ॥
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥ २६ ॥
तेषां विदार्य चेतांसि शरा हेमविभूषिताः ।व्यराजन्त महाराज सुपर्णा इव खेचराः ॥ २७ ॥
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥ २८ ॥
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ ।गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥ २९ ॥
शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥ ३० ॥
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः ।सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥ ३१ ॥
स रवस्तस्य शूरस्य धर्मराजस्य भारत ।आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥ ३२ ॥
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः ।बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥ ३३ ॥
ततो हृष्टो महाराज वादित्राणां महास्वनैः ।भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ॥ ३४ ॥
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् ।हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे ॥ ३५ ॥
एकत्रिंशन्महाराज पुत्रांस्तव महारथान् ।हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥ ३६ ॥
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः ।इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥ ३७ ॥
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव ।यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥ ३८ ॥
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते ।कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥ ३९ ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥ ४० ॥
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् ।पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥ ४१ ॥
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् ।विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥ ४२ ॥
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ।हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥ ४३ ॥
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् ।यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ।पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥ ४४ ॥
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् ।सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥ ४५ ॥
« »