Click on words to see what they mean.

संजय उवाच ।तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् ।क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥ १ ॥
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा ।भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् ॥ २ ॥
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव ।पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ ३ ॥
अवहासं तु तं पार्थो नामृष्यत वृकोदरः ।ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥ ४ ॥
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः ।धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥ ५ ॥
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः ।इषुभिश्छादयामास भीमसेनं समन्ततः ॥ ६ ॥
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् ।प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥ ७ ॥
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः ।तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥ ८ ॥
अवारोहद्रथात्तस्मादथ कर्णो महारथः ।गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥ ९ ॥
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः ।शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥ १० ॥
ततो बाणसहस्राणि प्रेषयामास पाण्डवः ।सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥ ११ ॥
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे ।कवचं भीमसेनस्य पातयामास सायकैः ॥ १२ ॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥ १३ ॥
ततो भीमो महाराज नवभिर्नतपर्वणाम् ।रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥ १४ ॥
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् ।अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥ १५ ॥
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् ।भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ।त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥ १६ ॥
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् ।अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥ १७ ॥
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ।चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥ १८ ॥
आगच्छतस्तान्सहसा भीमो राजन्महारथः ।साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ।ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥ १९ ॥
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् ।अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥ २० ॥
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥ २१ ॥
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥ २२ ॥
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः ।व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥ २३ ॥
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ ।शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥ २४ ॥
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ ।विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥ २५ ॥
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् ।शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥ २६ ॥
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः ।तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥ २७ ॥
प्रच्छादयन्तौ समरे शरजालैः परस्परम् ।रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥ २८ ॥
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु ।व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥ २९ ॥
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः ।व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥ ३० ॥
स चापघोषस्तनितः शरधाराम्बुदो महान् ।भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥ ३१ ॥
ततः शरसहस्रेण धनुर्मुक्तेन भारत ।पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥ ३२ ॥
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् ।सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥ ३३ ॥
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् ।सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥ ३४ ॥
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः ।पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥ ३५ ॥
« »