Click on words to see what they mean.

धृतराष्ट्र उवाच ।दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥ १ ॥
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे ।न च कर्णसमं योधं लोके पश्यामि कंचन ।इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥ २ ॥
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः ।इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ ३ ॥
वसुषेणसहायं मां नालं देवापि संयुगे ।किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥ ४ ॥
तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् ।युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥ ५ ॥
अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।प्रावेशयद्धुतवहं पतंगमिव मोहितः ॥ ६ ॥
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः ।न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय ॥ ७ ॥
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥ ८ ॥
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥ ९ ॥
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः ।भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥ १० ॥
योऽजयत्समरे कर्णं पुरंदर इवासुरम् ।न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥ ११ ॥
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः ॥ १२ ॥
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः ।उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥ १३ ॥
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।न भीमसेनं संप्राप्य निवर्तेत कदाचन ॥ १४ ॥
पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः ।ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः ॥ १५ ॥
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥ १६ ॥
तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥ १७ ॥
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥ १८ ॥
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय ॥ १९ ॥
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् ।आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥ २० ॥
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥ २१ ॥
वडवामुखमध्यस्थो मुच्येतापि हि मानवः ।न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम ॥ २२ ॥
न पाण्डवा न पाञ्चाला न च केशवसात्यकी ।जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥ २३ ॥
संजय उवाच ।यत्संशोचसि कौरव्य वर्तमाने जनक्षये ।त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥ २४ ॥
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥ २५ ॥
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥ २६ ॥
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् ।अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥ २७ ॥
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥ २८ ॥
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥ २९ ॥
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥ ३० ॥
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।प्रतिजग्राह समरे भीमसेनो हसन्निव ॥ ३१ ॥
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् ।अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥ ३२ ॥
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् ।तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥ ३३ ॥
कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥ ३४ ॥
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥ ३५ ॥
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ ३६ ॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥ ३७ ॥
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।सूतपुत्रो महाराज भीमसेनमवैक्षत ॥ ३८ ॥
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः ।विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ ३९ ॥
« »