Click on words to see what they mean.

संजय उवाच ।हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ॥ १ ॥
सेनापतित्वं संप्राप्य भारद्वाजो महारथः ।मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥ २ ॥
यत्कौरवाणामृषभादापगेयादनन्तरम् ।सेनापत्येन मां राजन्नद्य सत्कृतवानसि ॥ ३ ॥
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव ।करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥ ४ ॥
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः ।तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ॥ ५ ॥
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ॥ ६ ॥
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥ ७ ॥
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि ।न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ॥ ८ ॥
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि ।नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥ ९ ॥
आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते ।यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ॥ १० ॥
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥ ११ ॥
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः ।अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥ १२ ॥
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत ।सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ॥ १३ ॥
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥ १४ ॥
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ॥ १५ ॥
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि ।य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ॥ १६ ॥
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते ।पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ॥ १७ ॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥ १८ ॥
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥ १९ ॥
द्रोण उवाच ।न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि ।मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ॥ २० ॥
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि ।प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ॥ २१ ॥
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि ।तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ॥ २२ ॥
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ॥ २३ ॥
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ २४ ॥
ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ ।एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ॥ २५ ॥
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ २६ ॥
यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः ।अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये ॥ २७ ॥
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः ।ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ २८ ॥
संजय उवाच ।सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ २९ ॥
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः ।ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ३० ॥
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ॥ ३१ ॥
« »