Click on words to see what they mean.

संजय उवाच ।स तथा विरथः कर्णः पुनर्भीमेन निर्जितः ।रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥ १ ॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ २ ॥
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् ।ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥ ३ ॥
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ।पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥ ४ ॥
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे ।ध्वजमेकेन विव्याध सायकेन शितेन ह ॥ ५ ॥
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥ ६ ॥
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥ ७ ॥
ततः शरं महाराज सर्वकायावदारणम् ।प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥ ८ ॥
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥ ९ ॥
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् ।प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥ १० ॥
तया जघानाधिरथेः सदश्वान्साधुवाहिनः ।गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥ ११ ॥
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ ।ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥ १२ ॥
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् ।विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥ १३ ॥
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ।विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥ १४ ॥
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे ।दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥ १५ ॥
एष दुर्मुख राधेयो भीमेन विरथीकृतः ।तं रथेन नरश्रेष्ठं संपादय महारथम् ॥ १६ ॥
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः ।त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥ १७ ॥
दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम् ।वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ॥ १८ ॥
ततः कर्णं महाराज वारयित्वा शिलीमुखैः ।दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥ १९ ॥
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः ।सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥ २० ॥
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते ।आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥ २१ ॥
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् ।दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥ २२ ॥
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् ।दीर्घमुष्णं श्वसन्वीरो न किंचित्प्रत्यपद्यत ॥ २३ ॥
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः ।प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥ २४ ॥
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः ।हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥ २५ ॥
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः ।क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥ २६ ॥
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः ।अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥ २७ ॥
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः ।चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥ २८ ॥
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः ।प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥ २९ ॥
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् ।गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥ ३० ॥
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ।सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥ ३१ ॥
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः ।सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥ ३२ ॥
स विह्वलो महाराज कर्णो भीमबलार्दितः ।प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥ ३३ ॥
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् ।आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ ३४ ॥
« »