Click on words to see what they mean.

धृतराष्ट्र उवाच ।यस्मिञ्जयाशा सततं पुत्राणां मम संजय ।तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत् ।कर्णो वा समरे तात किमकार्षीदतः परम् ॥ १ ॥
संजय उवाच ।भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् ।रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥ २ ॥
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते ।भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ॥ ३ ॥
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् ।अभ्यवर्तत राधेयो भीमसेनरथं प्रति ॥ ४ ॥
पुनरेव ततो राजन्महानासीत्सुदारुणः ।विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ॥ ५ ॥
संरब्धौ हि महाबाहू परस्परवधैषिणौ ।अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ॥ ६ ॥
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ ।युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ॥ ७ ॥
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ ।शरभाविव संक्रुद्धौ युयुधाते परस्परम् ॥ ८ ॥
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च ।विराटनगरे चैव प्राप्तं दुःखमरिंदमः ॥ ९ ॥
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः ।सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥ १० ॥
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् ।कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥ ११ ॥
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव ।नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ॥ १२ ॥
समक्षं तव कौरव्य यदूचुः कुरवस्तदा ।दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ॥ १३ ॥
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः ।परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ॥ १४ ॥
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह ।विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ॥ १५ ॥
बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् ।निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥ १६ ॥
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् ।चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥ १७ ॥
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति ।भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥ १८ ॥
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् ।व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥ १९ ॥
महारथो महाबाहुर्महावेगैर्महाबलः ।विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ॥ २० ॥
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः ।अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥ २१ ॥
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् ।कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ॥ २२ ॥
ततः प्रध्माप्य जलजं भेरीशतनिनादितम् ।अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥ २३ ॥
तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् ।भीमः कर्णं समासाद्य छादयामास सायकैः ॥ २४ ॥
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः ।व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ॥ २५ ॥
ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः ।निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥ २६ ॥
ते हया बह्वशोभन्त मिश्रिता वातरंहसः ।सितासिता महाराज यथा व्योम्नि बलाहकाः ॥ २७ ॥
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ ।संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥ २८ ॥
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः ।दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ॥ २९ ॥
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः ।नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ॥ ३० ॥
तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः ।तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ॥ ३१ ॥
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः ।शरजालावृतं व्योम चक्राते शरवृष्टिभिः ॥ ३२ ॥
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ३३ ॥
सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ ।भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ॥ ३४ ॥
ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः ।पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ ३५ ॥
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् ।अतिभारममन्येतां भीमे कृष्णधनंजयौ ॥ ३६ ॥
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः ।इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥ ३७ ॥
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः ।कृतो महान्महाराज पुत्राणां ते जनक्षयः ॥ ३८ ॥
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः ।क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ ॥ ३९ ॥
« »