Click on words to see what they mean.

धृतराष्ट्र उवाच ।यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥ १ ॥
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।कथं भूयस्तु राधेयो भीममागान्महारथः ॥ २ ॥
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥ ३ ॥
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः ।नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ॥ ४ ॥
भयान्न शेते सततं चिन्तयन्वै महारथम् ।तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ॥ ५ ॥
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् ।कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ॥ ६ ॥
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति ।कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ॥ ७ ॥
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥ ८ ॥
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ॥ ९ ॥
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम ।कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति ॥ १० ॥
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे ।स कथं भीमकर्माणं भीमसेनमयुध्यत ॥ ११ ॥
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः ।तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥ १२ ॥
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥ १३ ॥
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥ १४ ॥
यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥ १५ ॥
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय ॥ १६ ॥
संजय उवाच ।भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ ॥ १७ ॥
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥ १८ ॥
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली ।आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥ १९ ॥
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि ।अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥ २० ॥
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः ।द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ॥ २१ ॥
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ।तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥ २२ ॥
तस्मै प्रासृजदुग्राणि विविधानि परंतपः ।अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥ २३ ॥
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ॥ २४ ॥
स यथावन्महाराज विद्यया वै सुपूजितः ।आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ॥ २५ ॥
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव ।अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ॥ २६ ॥
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ २७ ॥
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे ।विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ २८ ॥
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः ।सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥ २९ ॥
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः ।विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ॥ ३० ॥
ततो बाणमयं जालं भीमसेनरथं प्रति ।कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥ ३१ ॥
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥ ३२ ॥
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ॥ ३३ ॥
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् ।समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥ ३४ ॥
स कर्णचापप्रभवानिषूनाशीविषोपमान् ।बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥ ३५ ॥
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥ ३६ ॥
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् ।भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥ ३७ ॥
मृदुपूर्वं च राधेयो भीममाजावयोधयत् ।क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥ ३८ ॥
तं भीमसेनो नामृष्यदवमानममर्षणः ।स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ॥ ३९ ॥
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे ।निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ॥ ४० ॥
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः ।अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ॥ ४१ ॥
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ॥ ४२ ॥
तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः ॥ ४३ ॥
पुनश्च शरवर्षेण छादयामास भारत ।कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ॥ ४४ ॥
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।समाचिततनुं संख्ये श्वाविधं शललैरिव ॥ ४५ ॥
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् ।दधार समरे वीरः स्वरश्मीनिव भास्करः ॥ ४६ ॥
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत ।तपनीयनिभैः पुष्पैः पलाश इव कानने ॥ ४७ ॥
तत्तु भीमो महाराज कर्णस्य चरितं रणे ।नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ॥ ४८ ॥
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥ ४९ ॥
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च ।मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥ ५० ॥
ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् ।चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ॥ ५१ ॥
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥ ५२ ॥
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष ।यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ॥ ५३ ॥
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः ।तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ॥ ५४ ॥
« »