Click on words to see what they mean.

धृतराष्ट्र उवाच ।शृणु दिव्यानि कर्माणि वासुदेवस्य संजय ।कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥ १ ॥
संवर्धता गोपकुले बालेनैव महात्मना ।विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय ॥ २ ॥
उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे ।जघान हयराजं यो यमुनावनवासिनम् ॥ ३ ॥
दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् ।वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥ ४ ॥
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः ॥ ५ ॥
तथा कंसो महातेजा जरासंधेन पालितः ।विक्रमेणैव कृष्णेन सगणः शातितो रणे ॥ ६ ॥
सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः ।भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥ ७ ॥
बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥ ८ ॥
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।आराधितः सदारेण स चास्मै प्रददौ वरान् ॥ ९ ॥
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे ।निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ॥ १० ॥
अमृष्यमाणा राजानो यस्य जात्या हया इव ।रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥ ११ ॥
जरासंधं महाबाहुमुपायेन जनार्दनः ।परेण घातयामास पृथगक्षौहिणीपतिम् ॥ १२ ॥
चेदिराजं च विक्रान्तं राजसेनापतिं बली ।अर्घे विवदमानं च जघान पशुवत्तदा ॥ १३ ॥
सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् ।समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥ १४ ॥
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् ।वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥ १५ ॥
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् ।काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥ १६ ॥
काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय ।त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥ १७ ॥
नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति ।जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥ १८ ॥
प्रविश्य मकरावासं यादोभिरभिसंवृतम् ।जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ॥ १९ ॥
युधि पञ्चजनं हत्वा पातालतलवासिनम् ।पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥ २० ॥
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ २१ ॥
वैनतेयं समारुह्य त्रासयित्वामरावतीम् ।महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥ २२ ॥
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् ।राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥ २३ ॥
यच्च तन्महदाश्चर्यं सभायां मम संजय ।कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥ २४ ॥
यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् ।तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ॥ २५ ॥
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय ॥ २६ ॥
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः ।आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ॥ २७ ॥
उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् ।पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥ २८ ॥
एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः ।कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥ २९ ॥
आहूता वृष्णिवीरेण केशवेन महात्मना ।ततः संशयितं सर्वं भवेदिति मतिर्मम ॥ ३० ॥
नागायुतबलो वीरः कैलासशिखरोपमः ।वनमाली हली रामस्तत्र यत्र जनार्दनः ॥ ३१ ॥
यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय ॥ ३२ ॥
स यदा तात संनह्येत्पाण्डवार्थाय केशवः ।न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥ ३३ ॥
यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् ।वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥ ३४ ॥
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे ।कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥ ३५ ॥
यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः ।रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥ ३६ ॥
न केनचिदुपायेन कुरूणां दृश्यते जयः ।तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥ ३७ ॥
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः ।अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥ ३८ ॥
प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः ।मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥ ३९ ॥
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः ।न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ॥ ४० ॥
पूर्वदेवौ महात्मानौ नरनारायणावुभौ ।एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ॥ ४१ ॥
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ।नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥ ४२ ॥
युगस्येव विपर्यासो लोकानामिव मोहनम् ।भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥ ४३ ॥
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ।न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥ ४४ ॥
लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ ।भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय ॥ ४५ ॥
यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे ।अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥ ४६ ॥
तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः ।पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ॥ ४७ ॥
अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ।यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥ ४८ ॥
प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति ।क्रूरः सर्वविनाशाय कालः समतिवर्तते ॥ ४९ ॥
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥ ५० ॥
तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे ।अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ ५१ ॥
« »