Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो राजा शकुनिश्चापि सौबलः ।दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ १ ॥
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् ।कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ॥ २ ॥
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ ३ ॥
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे ।न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ॥ ४ ॥
अवध्यमानास्ते चापि क्षपयन्ति बलं मम ।सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ ५ ॥
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ ६ ॥
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् ।मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव ॥ ७ ॥
भीष्मः शांतनवस्तूर्णमपयातु महारणात् ।निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ ८ ॥
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ।पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ ९ ॥
पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै ।अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ १० ॥
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥ ११ ॥
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति ।अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत ॥ १२ ॥
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् ।मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ १३ ॥
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ १४ ॥
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः ।दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ १५ ॥
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः ।अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ॥ १६ ॥
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम ।ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ॥ १७ ॥
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते ।सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ॥ १८ ॥
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ १९ ॥
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः ।धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ॥ २० ॥
भाण्डीपुष्पनिकाशेन तपनीयनिभेन च ।अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ॥ २१ ॥
अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः ।शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ॥ २२ ॥
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ।भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ २३ ॥
हयानन्ये समारुह्य गजानन्ये च भारत ।रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ॥ २४ ॥
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ।प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ २५ ॥
संपूज्यमानः कुरुभिः कौरवाणां महारथः ।प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ।अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ॥ २६ ॥
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा ।हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ॥ २७ ॥
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् ।शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ २८ ॥
संस्तूयमानः सूतैश्च मागधैश्च महायशाः ।पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥ २९ ॥
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः ।परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ॥ ३० ॥
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः ।शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ॥ ३१ ॥
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ॥ ३२ ॥
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ ३३ ॥
अभिवाद्य ततो भीष्मं निषण्णः परमासने ।काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ।उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ ३४ ॥
त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन ।उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ॥ ३५ ॥
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ।तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ।जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ॥ ३६ ॥
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् ।पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ॥ ३७ ॥
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् ।सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ ३८ ॥
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो ।मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ ३९ ॥
अनुजानीहि समरे कर्णमाहवशोभिनम् ।स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ ४० ॥
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव ।नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम् ॥ ४१ ॥
« »