Click on words to see what they mean.

संजय उवाच ।पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः ।दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥ १ ॥
अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ २ ॥
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ।ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥ ३ ॥
अवध्या बहवो वीराः संग्रामे मधुसूदन ।निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः ॥ ४ ॥
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥ ५ ॥
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् ।किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ ६ ॥
दुर्योधनापराधेन शकुनेः सौबलस्य च ।क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ ७ ॥
इदानीं च विजानामि सुकृतं मधुसूदन ।कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ।राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥ ८ ॥
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥ ९ ॥
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे ।युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥ १० ॥
संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति ।प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥ ११ ॥
एवमुक्तस्तु पार्थेन केशवः परवीरहा ।चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ १२ ॥
अथ शब्दो महानासीत्तव सैन्यस्य भारत ।मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ १३ ॥
अपराह्णे महाराज संग्रामः समपद्यत ।पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ १४ ॥
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ १५ ॥
ततः शांतनवो भीष्मः कृपश्च रथिनां वरः ।भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥ १६ ॥
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥ १७ ॥
शेषास्त्वन्ये महाराज शेषानेव महारथान् ।ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ १८ ॥
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर ।प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ १९ ॥
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः ।प्रावृषीव महाराज जलदाः पर्वतं यथा ॥ २० ॥
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते ।सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥ २१ ॥
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव ।क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥ २२ ॥
अपरेण तु भल्लेन पीतेन निशितेन च ।अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥ २३ ॥
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् ।स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥ २४ ॥
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना ।अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ २५ ॥
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् ।दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥ २६ ॥
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ ।वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥ २७ ॥
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते ।तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ २८ ॥
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव ।यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ २९ ॥
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ ३० ॥
यथा हि गोवृषो वर्षं संधारयति खात्पतत् ।भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ ३१ ॥
अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् ॥ ३२ ॥
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ ३३ ॥
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः ।वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ ३४ ॥
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः ।पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ ३५ ॥
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ ३६ ॥
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् ।विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ ३७ ॥
विरथो वध्यमानः स सौभद्रेण यशस्विना ।अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥ ३८ ॥
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥ ३९ ॥
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ ४० ॥
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥ ४१ ॥
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ ४२ ॥
तत्राक्रन्दो महानासीत्तव तेषां च भारत ।निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ ४३ ॥
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष ।नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ ४४ ॥
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः ।विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ ४५ ॥
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे ।व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥ ४६ ॥
रणे चारूणि चापानि हेमपृष्ठानि भारत ।हतानामपविद्धानि कलापाश्च महाधनाः ॥ ४७ ॥
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः ।तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ ४८ ॥
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥ ४९ ॥
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् ।जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥ ५० ॥
अपकृत्ताश्च पतिता मुसलानि गुरूणि च ।परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥ ५१ ॥
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः ।कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥ ५२ ॥
नानाविधानि शस्त्राणि विसृज्य पतिता नराः ।जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥ ५३ ॥
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ ५४ ॥
तथैवाश्वनृनागानां शरीरैराबभौ तदा ।संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥ ५५ ॥
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥ ५६ ॥
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च ।शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥ ५७ ॥
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः ।गतासुभिरमित्रघ्न विबभौ संवृता मही ॥ ५८ ॥
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ५९ ॥
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः ।पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ ६० ॥
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥ ६१ ॥
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥ ६२ ॥
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः ।वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥ ६३ ॥
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ ६४ ॥
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता ॥ ६५ ॥
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः ।करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥ ६६ ॥
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् ।वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥ ६७ ॥
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥ ६८ ॥
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥ ६९ ॥
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ।सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥ ७० ॥
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ।उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥ ७१ ॥
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः ।अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥ ७२ ॥
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥ ७३ ॥
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ॥ ७४ ॥
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ।ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ॥ ७५ ॥
एवमेते महासेने मृदिते तत्र भारत ।परस्परं समासाद्य तव तेषां च संयुगे ॥ ७६ ॥
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥ ७७ ॥
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः ।घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥ ७८ ॥
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः ।न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥ ७९ ॥
« »