Click on words to see what they mean.

धृतराष्ट्र उवाच ।वर्षाणां चैव नामानि पर्वतानां च संजय ।आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ १ ॥
संजय उवाच ।दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः ।रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः ॥ ३ ॥
दश वर्षसहस्राणि शतानि दश पञ्च च ।जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ ४ ॥
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च ।वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥ ५ ॥
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ।महाबलास्तत्र सदा राजन्मुदितमानसाः ॥ ६ ॥
एकादश सहस्राणि वर्षाणां ते जनाधिप ।आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ ७ ॥
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप ।एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ॥ ८ ॥
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥ ९ ॥
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप ।वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ १० ॥
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः ।चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ ११ ॥
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२ ॥
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः ।देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ १३ ॥
त्रयोदश सहस्राणि वर्षाणां ते जनाधिप ।आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम ॥ १४ ॥
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।हरिर्वसति वैकुण्ठः शकटे कनकात्मके ॥ १५ ॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ॥ १६ ॥
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।संक्षेपो विस्तरश्चैव कर्ता कारयिता च सः ॥ १७ ॥
पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव ।स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १८ ॥
वैशंपायन उवाच ।एवमुक्तः संजयेन धृतराष्ट्रो महामनाः ।ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ १९ ॥
स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः ।असंशयं सूतपुत्र कालः संक्षिपते जगत् ।सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ॥ २० ॥
नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् ।देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ॥ २१ ॥
« »