Click on words to see what they mean.

संजय उवाच ।ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ १ ॥
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ २ ॥
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् ।तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे ।आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥ ३ ॥
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ।दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥ ४ ॥
संप्रदीप्तां महोल्काभामशनीं मघवानिव ।समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥ ५ ॥
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥ ६ ॥
स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ।रथं च वारयामास कुञ्जरेण सुतस्य ते ॥ ७ ॥
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ।घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥ ८ ॥
स तयाभिहतो राजंस्तेन बाहुविमुक्तया ।संजातरुधिरोत्पीडः पपात च ममार च ॥ ९ ॥
पतत्यथ गजे चापि वङ्गानामीश्वरो बली ।जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ १० ॥
दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम् ।प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ ११ ॥
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् ।प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥ १२ ॥
संधाय च शितं बाणं कालाग्निसमतेजसम् ।मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ १३ ॥
तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् ।लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥ १४ ॥
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः ।त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥ १५ ॥
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः ।आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् ॥ १६ ॥
यथैष निनदो घोरः श्रूयते राक्षसेरितः ।हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥ १७ ॥
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् ।तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥ १८ ॥
अभिद्रुतं महाभागं राक्षसेन दुरात्मना ।एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥ १९ ॥
पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ २० ॥
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः ।कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥ २१ ॥
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः ।रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ।अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥ २२ ॥
तदनीकमनाधृष्यं पालितं लोकसत्तमैः ।आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥ २३ ॥
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ २४ ॥
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् ।राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ २५ ॥
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् ।अश्रूयत महाराज वंशानां दह्यतामिव ॥ २६ ॥
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् ।शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥ २७ ॥
वीरबाहुविसृष्टानां तोमराणां विशां पते ।रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥ २८ ॥
ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः ।राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥ २९ ॥
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥ ३० ॥
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ ३१ ॥
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।जत्रुदेशे समासाद्य विकर्णं समताडयत् ।न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥ ३२ ॥
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ।भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥ ३३ ॥
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ ३४ ॥
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ ३५ ॥
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ ३६ ॥
पूर्णायतविसृष्टेन पीतेन निशितेन च ।निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ।स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ ३७ ॥
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ।चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ।बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ ३८ ॥
« »