Click on words to see what they mean.

धृतराष्ट्र उवाच ।इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ २ ॥
नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।सपर्वतवना राजंश्चचाल सुभृशं तदा ।अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥ ३ ॥
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥ ४ ॥
सर्व एव च राजेन्द्र तावका दीनचेतसः ।सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥ ५ ॥
निनदत्सुमहानादं निर्घातमिव राक्षसः ।ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥ ६ ॥
नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः ।आजगाम सुसंक्रुद्धः कालान्तकयमोपमः ॥ ७ ॥
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ॥ ८ ॥
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ॥ ९ ॥
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ १० ॥
तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् ।पुत्रं तव महाराज चुकोप स निशाचरः ॥ ११ ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥ १२ ॥
गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् ।अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ॥ १३ ॥
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ।शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥ १४ ॥
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः ।पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥ १५ ॥
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ।अपश्याम महाराज वध्यमानान्निशाचरैः ॥ १६ ॥
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ।दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥ १७ ॥
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः ।मुमोच निशितान्बाणान्राक्षसेषु महाबलः ॥ १८ ॥
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ।संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥ १९ ॥
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ।शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥ २० ॥
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ।मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ॥ २१ ॥
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ।क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥ २२ ॥
विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् ।अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ॥ २३ ॥
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ।न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥ २४ ॥
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ।ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ।यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥ २५ ॥
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला ।सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ॥ २६ ॥
तव च प्रियकामेन आश्रमस्था दुरात्मना ।सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ॥ २७ ॥
एतेषामवमानानामन्येषां च कुलाधम ।अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥ २८ ॥
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् ।संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ॥ २९ ॥
शरवर्षेण महता दुर्योधनमवाकिरत् ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ३० ॥
« »