Click on words to see what they mean.

संजय उवाच ।वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ १ ॥
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा ।अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम् ॥ २ ॥
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् ।आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ ३ ॥
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।ये चापरे तित्तिरजा जवना वातरंहसः ॥ ४ ॥
सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः ।हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः ॥ ५ ॥
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् ।सुतायां नागराजस्य जातः पार्थेन धीमता ॥ ६ ॥
ऐरावतेन सा दत्ता अनपत्या महात्मना ।पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ ७ ॥
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ ८ ॥
स नागलोके संवृद्धो मात्रा च परिरक्षितः ।पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ ९ ॥
रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः ।इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ १० ॥
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् ।अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ।इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ॥ ११ ॥
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ १२ ॥
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः ।प्रीतिमानभवत्पार्थो देवराजनिवेशने ॥ १३ ॥
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ।युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ॥ १४ ॥
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः ।कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ॥ १५ ॥
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ।उत्पेतुः सहसा राजन्हंसा इव महोदधौ ॥ १६ ॥
ते त्वदीयान्समासाद्य हयसंघान्महाजवान् ।क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ १७ ॥
निपतद्भिस्तथा तैश्च हयसंघैः परस्परम् ।शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ १८ ॥
तथैव च महाराज समेत्यान्योन्यमाहवे ।परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ १९ ॥
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।उभयोरपि संशान्ता हयसंघाः समन्ततः ॥ २० ॥
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ २१ ॥
ततः क्षीणे हयानीके किंचिच्छेषे च भारत ।सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥ २२ ॥
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा ।आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥ २३ ॥
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः ।षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥ २४ ॥
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ २५ ॥
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् ।बलेन महता युक्ताः स्वर्गाय विजयैषिणः ।विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥ २६ ॥
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ।अब्रवीत्समरे योधान्विचित्राभरणायुधान् ॥ २७ ॥
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ।हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ॥ २८ ॥
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ।जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ॥ २९ ॥
तदनीकमनीकेन समरे वीक्ष्य पातितम् ।अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ ३० ॥
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ ३१ ॥
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ॥ ३२ ॥
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ ३३ ॥
इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः ।मोहयामास समरे विद्ध्वा परपुरंजयः ॥ ३४ ॥
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः ।तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ ३५ ॥
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् ।पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ॥ ३६ ॥
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ॥ ३७ ॥
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् ।अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ॥ ३८ ॥
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥ ३९ ॥
भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः ।परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ ४० ॥
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः ।उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥ ४१ ॥
आयुधानि च सर्वेषां बाहूनपि च भूषितान् ।अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ॥ ४२ ॥
वृषकस्तु महाराज बहुधा परिविक्षतः ।अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ ४३ ॥
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः ।अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम् ॥ ४४ ॥
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् ।वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ ४५ ॥
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली ।मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ॥ ४६ ॥
त्वं च कामगमस्तात मायास्त्रे च विशारदः ।कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ ४७ ॥
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ ४८ ॥
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ।निहन्तुकामः समरे इरावन्तं महाबलम् ॥ ४९ ॥
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी ।हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥ ५० ॥
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः ।त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ ५१ ॥
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि ।स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ॥ ५२ ॥
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ ५३ ॥
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ॥ ५४ ॥
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ॥ ५५ ॥
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः ।चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ॥ ५६ ॥
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् ।इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ ५७ ॥
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् ।विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ।चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ॥ ५८ ॥
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ।संबभूव महाराज समवाप च यौवनम् ॥ ५९ ॥
माया हि सहजा तेषां वयो रूपं च कामजम् ।एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ॥ ६० ॥
इरावानपि संक्रुद्धो राक्षसं तं महाबलम् ।परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥ ६१ ॥
स तेन बलिना वीरश्छिद्यमान इव द्रुमः ।राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ॥ ६२ ॥
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु ।ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ॥ ६३ ॥
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् ।कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ॥ ६४ ॥
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः ।इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे ॥ ६५ ॥
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः ।योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ॥ ६६ ॥
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे ।दधार सुमहद्रूपमनन्त इव भोगवान् ।ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ ६७ ॥
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः ।सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥ ६८ ॥
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ॥ ६९ ॥
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।इरावतः शिरो रक्षः पातयामास भूतले ॥ ७० ॥
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे ।विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ ७१ ॥
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः ।महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ ७२ ॥
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ ७३ ॥
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।रथिभिर्निहता राजंस्तव तेषां च संकुले ॥ ७४ ॥
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ ७५ ॥
तथैव तावका राजन्सृञ्जयाश्च महाबलाः ।जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥ ७६ ॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ ७७ ॥
तथा मर्मातिगैर्भीष्मो निजघान महारथान् ।कम्पयन्समरे सेनां पाण्डवानां महाबलः ॥ ७८ ॥
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः ।दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ ७९ ॥
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ ८० ॥
तथैव भीमसेनस्य पार्षतस्य च भारत ।रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ॥ ८१ ॥
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ॥ ८२ ॥
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः ।इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥ ८३ ॥
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ ८४ ॥
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः ।तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ ८५ ॥
न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति ।संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप ॥ ८६ ॥
« »