Click on words to see what they mean.

धृतराष्ट्र उवाच ।दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय ।भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥ १ ॥
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय ।मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ॥ २ ॥
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ ३ ॥
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ॥ ४ ॥
अन्येषां चैव वीराणां मध्यगास्तनया मम ।यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥ ५ ॥
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।वार्यमाणो मया तात भीष्मेण विदुरेण च ॥ ६ ॥
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥ ७ ॥
यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥ ८ ॥
संजय उवाच ।इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ॥ ९ ॥
निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च ।सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ १० ॥
न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् ।तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ॥ ११ ॥
विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् ।अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ १२ ॥
तदेतत्समतिक्रान्तं पूर्वमेव विशां पते ।तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ॥ १३ ॥
मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत ।लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥ १४ ॥
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ॥ १५ ॥
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ १६ ॥
अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे ।दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ १७ ॥
अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः ।भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ १८ ॥
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।तथैव कौरवे राजन्नवध्यन्त परे रणे ॥ १९ ॥
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह ।अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥ २० ॥
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् ।वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ २१ ॥
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ॥ २२ ॥
कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे ।अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ॥ २३ ॥
तथैव कौरवेयाणां भीमसेनो महाबलः ।चकार कदनं घोरं क्रुद्धः काल इवापरः ॥ २४ ॥
वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ॥ २५ ॥
स संग्रामो महाराज घोररूपोऽभवन्महान् ।कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ॥ २६ ॥
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ २७ ॥
तत्र भारत भीमेन नाराचाभिहता गजाः ।पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ॥ २८ ॥
छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष ।क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ॥ २९ ॥
नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ।वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ ३० ॥
पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी ।निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ ३१ ॥
अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः ।प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ॥ ३२ ॥
रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः ।हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ॥ ३३ ॥
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः ।अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः ।संछन्ना वसुधा भाति वसन्ते कुसुमैरिव ॥ ३४ ॥
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।क्रुद्धे शांतनवे भीष्मे द्रोणे च रथसत्तमे ॥ ३५ ॥
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि ।तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ ३६ ॥
« »