Click on words to see what they mean.

धृतराष्ट्र उवाच ।मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ १ ॥
संजय उवाच ।दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ २ ॥
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ३ ॥
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ ४ ॥
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ५ ॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥ ६ ॥
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥ ७ ॥
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥ ८ ॥
मिथुनं जायमानं वै समं तच्च प्रवर्धते ।तुल्यरूपगुणोपेतं समवेषं तथैव च ।एकैकमनुरक्तं च चक्रवाकसमं विभो ॥ ९ ॥
निरामया वीतशोका नित्यं मुदितमानसाः ।दश वर्षसहस्राणि दश वर्षशतानि च ।जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ १० ॥
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥ ११ ॥
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ १२ ॥
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते ।भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ १३ ॥
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः ।द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ १४ ॥
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ १५ ॥
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः ।चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥ १६ ॥
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ ।कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ १७ ॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ १८ ॥
सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ १९ ॥
योजनानां सहस्रं च शतं च भरतर्षभ ।उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥ २० ॥
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ २१ ॥
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ।मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥ २२ ॥
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप ।मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥ २३ ॥
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप ।तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ २४ ॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥ २५ ॥
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् ।नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥ २६ ॥
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका ।योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥ २७ ॥
महारजतसंकाशा जायन्ते तत्र मानवाः ।ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥ २८ ॥
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः ।रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥ २९ ॥
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ३० ॥
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ ३१ ॥
« »