Click on words to see what they mean.

संजय उवाच ।तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि ।प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥ १ ॥
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ २ ॥
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् ।त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ ३ ॥
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् ।मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥ ४ ॥
एष भीष्मः शांतनवो योद्धुकामो धनंजयम् ।सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ ५ ॥
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् ।संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ ६ ॥
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥ ७ ॥
ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् ।रणे भारतमायान्तमाससाद महाबलम् ॥ ८ ॥
महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।महता मेघनादेन रथेनाति विराजत ॥ ९ ॥
समरे सर्वसैन्यानामुपयातं धनंजयम् ।अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ १० ॥
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् ॥ ११ ॥
तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥ १२ ॥
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥ १३ ॥
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ १४ ॥
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥ १५ ॥
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः ।ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ।धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ १६ ॥
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः ।अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ १७ ॥
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः ।आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥ १८ ॥
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।महता शरवर्षेण वारयामासतुर्बलात् ॥ १९ ॥
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥ २० ॥
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे ।जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥ २१ ॥
स पपात रथात्तूर्णं भारद्वाजशराहतः ।धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ २२ ॥
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ २३ ॥
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।दारयामास समरे शतशोऽथ सहस्रशः ॥ २४ ॥
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे ।आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ २५ ॥
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः ।शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ २६ ॥
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ।शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥ २७ ॥
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ।खड्गमादाय निशितं विमलं च शरावरम् ।श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ २८ ॥
सखड्गस्य महाराज चरतस्तस्य संयुगे ।नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ २९ ॥
ततः शरसहस्राणि बहूनि भरतर्षभ ।प्रेषयामास समरे द्रौणिः परमकोपनः ॥ ३० ॥
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् ।असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ ३१ ॥
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ।शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥ ३२ ॥
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः ।आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥ ३३ ॥
तमापतन्तं सहसा कालानलसमप्रभम् ।चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ ३४ ॥
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः ।आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ ३५ ॥
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे ।अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥ ३६ ॥
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥ ३७ ॥
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ।नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥ ३८ ॥
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ।विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥ ३९ ॥
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा ।अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ४० ॥
तत्तथा पीडितं तेन माधवेन महात्मना ।प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ॥ ४१ ॥
तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि ।शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥ ४२ ॥
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ ४३ ॥
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ।छादयामास समरे शरैः संनतपर्वभिः ॥ ४४ ॥
संछाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ।विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥ ४५ ॥
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः ।षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥ ४६ ॥
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ।हयांश्च चतुरः शीघ्रं निजघान महारथः ।शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ ४७ ॥
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥ ४८ ॥
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ ४९ ॥
ततो नृपं पराजित्य पार्षतः परवीरहा ।न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥ ५० ॥
कृतवर्मा रणे भीमं शरैरार्छन्महारथम् ।प्रच्छादयामास च तं महामेघो रविं यथा ॥ ५१ ॥
ततः प्रहस्य समरे भीमसेनः परंतपः ।प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे ॥ ५२ ॥
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥ ५३ ॥
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः ।सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥ ५४ ॥
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥ ५५ ॥
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ ।स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ ५६ ॥
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् ।निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥ ५७ ॥
« »