Click on words to see what they mean.

संजय उवाच ।अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः ॥ १ ॥
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥ २ ॥
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥ ३ ॥
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः ।रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥ ४ ॥
देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ ५ ॥
पदाताश्च तथा शूरा नानाप्रहरणायुधाः ।नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ ६ ॥
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ।देवानपि रणे जेतुं समर्था इति मे मतिः ॥ ७ ॥
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा ।अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ।वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥ ८ ॥
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव ।पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥ ९ ॥
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् ।ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा ॥ १० ॥
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् ।अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥ ११ ॥
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् ।संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥ १२ ॥
रथैरनेकसाहस्रैः समन्तात्परिवारितम् ।अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥ १३ ॥
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे ।अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥ १४ ॥
एवंव्यूहं महाराज तव सैन्यं महारथैः ।स्थितं रणाय महते भीष्मेण युधि पालितम् ॥ १५ ॥
दशाश्वानां सहस्राणि दन्तिनां च तथैव च ।रथानामयुतं चापि पुत्राश्च तव दंशिताः ।चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥ १६ ॥
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते ।संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ १७ ॥
दुर्योधनस्तु समरे दंशितो रथमास्थितः ।व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ १८ ॥
ततः शब्दो महानासीत्पुत्राणां तव भारत ।रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥ १९ ॥
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि ।मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ।सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥ २० ॥
मण्डलं तु समालोक्य व्यूहं परमदारुणम् ।स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥ २१ ॥
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ।रथिनः सादिनश्चैव सिंहनादमथानदन् ॥ २२ ॥
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ।इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥ २३ ॥
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् ।स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥ २४ ॥
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः ।विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥ २५ ॥
सर्वे नृपास्तु समरे धनंजयमयोधयन् ।भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥ २६ ॥
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो ।आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥ २७ ॥
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः ।अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥ २८ ॥
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् ।ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥ २९ ॥
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ।श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥ ३० ॥
चेकितानस्तु समरे कृपमेवान्वयोधयत् ।शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥ ३१ ॥
ततो राजसहस्राणि परिवव्रुर्धनंजयम् ।शक्तितोमरनाराचगदापरिघपाणयः ॥ ३२ ॥
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ।पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ।व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ ३३ ॥
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ ३४ ॥
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन ।य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ ३५ ॥
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च ।ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ ३६ ॥
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।तडागमिव धाराभिर्यथा प्रावृषि तोयदाः ॥ ३७ ॥
हाहाकारो महानासीत्तव सैन्ये विशां पते ।छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥ ३८ ॥
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः ।विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥ ३९ ॥
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् ।तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ ४० ॥
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥ ४१ ॥
तेषां राजसहस्राणां हयानां दन्तिनां तथा ।द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ ४२ ॥
ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः ।अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥ ४३ ॥
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।संचुक्षुभे महाराज वातैरिव महार्णवः ॥ ४४ ॥
« »