Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो राजा लोहितायति भास्करे ।संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ १ ॥
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ २ ॥
अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः ।अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ ३ ॥
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः ।द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥ ४ ॥
यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे ।तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ ५ ॥
कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा ।अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ ६ ॥
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे ।उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥ ७ ॥
अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् ।समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥ ८ ॥
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।समादाय शरान्घोरान्महाशनिसमप्रभान् ॥ ९ ॥
षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने ।ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ १० ॥
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ ११ ॥
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥ १२ ॥
त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ १३ ॥
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः ।पपात सहसा भूमिं विद्युज्जलधरादिव ॥ १४ ॥
ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् ।ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ १५ ॥
अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् ।आजघान रणे भीमः स्मयन्निव महारथः ॥ १६ ॥
ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः ।दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ १७ ॥
कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् ।आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ १८ ॥
स गाढविद्धो व्यथितो भीमसेनेन संयुगे ।निषसाद रथोपस्थे राजा दुर्योधनस्तदा ॥ १९ ॥
परिवार्य ततो भीमं हन्तुकामो जयद्रथः ।रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ २० ॥
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् ।केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ २१ ॥
चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः ।चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ २२ ॥
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ २३ ॥
आजघान ततस्तूर्णमभिमन्युर्महामनाः ।एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥ २४ ॥
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ।ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥ २५ ॥
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ।अभिमन्युर्महाराज तावकान्समकम्पयत् ।यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ २६ ॥
विकर्णस्य ततो भल्लान्प्रेषयामास भारत ।चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥ २७ ॥
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् ।प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥ २८ ॥
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः ।भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ २९ ॥
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ ३० ॥
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ ३१ ॥
अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः ।अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥ ३२ ॥
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः ।ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥ ३३ ॥
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः ।जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥ ३४ ॥
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः ।शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥ ३५ ॥
सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः ।विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥ ३६ ॥
तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः ।पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ ३७ ॥
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव ।अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ ३८ ॥
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः ।चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ।क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥ ३९ ॥
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् ।अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥ ४० ॥
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् ।विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥ ४१ ॥
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना ।शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥ ४२ ॥
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके ।चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ॥ ४३ ॥
अथान्यद्धनुरादाय भारसाधनमुत्तमम् ।समादत्त शितान्बाणाञ्शतानीको महाबलः ॥ ४४ ॥
तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः ।मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ॥ ४५ ॥
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ ४६ ॥
अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः ।जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ ४७ ॥
अथापरेण भल्लेन सुमुक्तेन निपातिना ।दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ॥ ४८ ॥
दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः ।जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ॥ ४९ ॥
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् ।अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ॥ ५० ॥
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ।प्रत्युद्ययुर्महाराज गजा इव महागजान् ॥ ५१ ॥
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ।शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ।प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ ५२ ॥
रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः ।नानावर्णविचित्राभिः पताकाभिरलंकृतैः ॥ ५३ ॥
वरचापधरा वीरा विचित्रकवचध्वजाः ।विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ ५४ ॥
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् ।अवर्तत महारौद्रं निघ्नतामितरेतरम् ।अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ॥ ५५ ॥
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ।रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ॥ ५६ ॥
ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः ।नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ।पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ ५७ ॥
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् ।कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ ५८ ॥
धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ ।मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ॥ ५९ ॥
« »