Click on words to see what they mean.

संजय उवाच ।ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा ।शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ १ ॥
एकीभूताः पुनश्चैव तव पुत्रा महारथाः ।समेत्य समरे भीमं योधयामासुरुद्यताः ॥ २ ॥
भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ ३ ॥
प्रगृह्य च महावेगं परासुकरणं दृढम् ।चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान् ॥ ४ ॥
ततो दुर्योधनो राजा भीमसेनं महाबलम् ।नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ ५ ॥
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ॥ ६ ॥
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।स तथाभिहतो राजा नाचलद्गिरिराडिव ॥ ७ ॥
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ ८ ॥
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ॥ ९ ॥
तानापतत एवाजौ भीमसेनो महाबलः ।प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ १० ॥
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् ।चित्रसेनं महाराज तव पुत्रं महायशाः ॥ ११ ॥
तथेतरांस्तव सुतांस्ताडयामास भारत ।शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः ॥ १२ ॥
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः ।अभिमन्युप्रभृतयस्ते द्वादश महारथाः ॥ १३ ॥
प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ॥ १४ ॥
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ १५ ॥
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् ।तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ १६ ॥
तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ १७ ॥
अथाभिमन्युं समरे भीमसेनेन संगतम् ।पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः ॥ १८ ॥
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः ।भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ १९ ॥
अपराह्णे ततो राजन्प्रावर्तत महान्रणः ।तावकानां च बलिनां परेषां चैव भारत ॥ २० ॥
अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् ।अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ॥ २१ ॥
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ॥ २२ ॥
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ ।आर्जुनिः शरजालेन छादयामास भारत ॥ २३ ॥
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ॥ २४ ॥
दुःशासनस्तु समरे केकयान्पञ्च मारिष ।योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ २५ ॥
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ॥ २६ ॥
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ २७ ॥
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः ।गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ॥ २८ ॥
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।कालयामास बलवान्पालः पशुगणानिव ॥ २९ ॥
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते ।दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ॥ ३० ॥
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः ।कुरूणां चापि सैन्येषु पाण्डवानां च भारत ॥ ३१ ॥
शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् ।रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ ३२ ॥
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ॥ ३३ ॥
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ ३४ ॥
तत्राद्भुतमपश्याम तव तेषां च भारत ।न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ॥ ३५ ॥
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः ।तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ॥ ३६ ॥
« »