Click on words to see what they mean.

संजय उवाच ।आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् ।न हि दुर्योधनस्तानि पश्यते भरतर्षभ ।यानि त्वं दृष्टवान्राजन्धर्मसंकरकारिते ॥ १ ॥
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते ।तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ।त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ २ ॥
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते ।इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ ३ ॥
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् ।शृणु युद्धं यथावृत्तं शंसतो मम मारिष ॥ ४ ॥
भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् ।आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ ५ ॥
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् ।जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥ ६ ॥
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ॥ ७ ॥
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः ।भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ ८ ॥
अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः ।जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥ ९ ॥
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः ।प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥ १० ॥
संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् ।यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ॥ ११ ॥
ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ॥ १२ ॥
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः ।जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ १३ ॥
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् ।समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ १४ ॥
ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ॥ १५ ॥
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ॥ १६ ॥
विदार्य महतीं सेनां तावकानां नरर्षभः ।आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ १७ ॥
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ १८ ॥
अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् ।मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ १९ ॥
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ॥ २० ॥
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ॥ २१ ॥
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् ।यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ॥ २२ ॥
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् ।सर्वेषामेव सैन्यानां संघर्षः समजायत ॥ २३ ॥
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके ।भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ २४ ॥
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः ।प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ २५ ॥
न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् ।भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥ २६ ॥
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति ।एकायनगते भीमे मयि चावस्थिते युधि ॥ २७ ॥
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः ।यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ॥ २८ ॥
मम भीमः सखा चैव संबन्धी च महाबलः ।भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ २९ ॥
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ॥ ३० ॥
एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् ।भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥ ३१ ॥
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् ।वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् ॥ ३२ ॥
ते हन्यमानाः समरे रथिनः सादिनस्तथा ।पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ॥ ३३ ॥
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष ।वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ ३४ ॥
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् ।अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ॥ ३५ ॥
अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरैः ।सैन्येन घोरेण सुसंगतेन दृष्ट्वा बली पार्षतो भीमसेनम् ॥ ३६ ॥
अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम् ।आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ॥ ३७ ॥
निःशल्यमेनं च चकार तूर्णमारोपयच्चात्मरथं महात्मा ।भृशं परिष्वज्य च भीमसेनमाश्वासयामास च शत्रुमध्ये ॥ ३८ ॥
भ्रातॄनथोपेत्य तवापि पुत्रस्तस्मिन्विमर्दे महति प्रवृत्ते ।अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ।तं यात सर्वे सहिता निहन्तुं मा वो रिपुः प्रार्थयतामनीकम् ॥ ३९ ॥
श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः ।वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः ॥ ४० ॥
प्रगृह्य चित्राणि धनूंषि वीरा ज्यानेमिघोषैः प्रविकम्पयन्तः ।शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः ।निहत्य तांश्चापि शरैः सुतीक्ष्णैर्न विव्यथे समरे चित्रयोधी ॥ ४१ ॥
समभ्युदीर्णांश्च तवात्मजांस्तथा निशाम्य वीरानभितः स्थितान्रणे ।जिघांसुरुग्रं द्रुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः ।क्रुद्धो भृशं तव पुत्रेषु राजन्दैत्येषु यद्वत्समरे महेन्द्रः ॥ ४२ ॥
ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः ।प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात् ।परीतकालानिव नष्टसंज्ञान्मोहोपेतांस्तव पुत्रान्निशम्य ॥ ४३ ॥
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः ।द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ ४४ ॥
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः ।अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ॥ ४५ ॥
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ ४६ ॥
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः ।प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ ४७ ॥
ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् ।तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ।धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ॥ ४८ ॥
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ।ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ॥ ४९ ॥
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः ।पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ॥ ५० ॥
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ।गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ॥ ५१ ॥
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ।प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ॥ ५२ ॥
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः ।बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥ ५३ ॥
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् ।अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ ५४ ॥
ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः ।बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ ५५ ॥
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् ।भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥ ५६ ॥
न संधारयितुं शक्ता तव सेना जनाधिप ।मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ॥ ५७ ॥
तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः ।परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ॥ ५८ ॥
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् ।बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ॥ ५९ ॥
दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः ।नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ ६० ॥
ततो रथं समारोप्य केकयस्य वृकोदरम् ।अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ ६१ ॥
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् ।क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ॥ ६२ ॥
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते ।दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥ ६३ ॥
अथान्यद्धनुरादाय पार्षतः परवीरहा ।द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ॥ ६४ ॥
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः ।हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥ ६५ ॥
वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् ।सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ॥ ६६ ॥
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः ।आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ ६७ ॥
ततः सरथनागाश्वा समकम्पत वाहिनी ।पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ ६८ ॥
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ॥ ६९ ॥
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ॥ ७० ॥
तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव ।दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम् ।चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ॥ ७१ ॥
« »